कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 233, कुल 1079 में से
संदर्भ में पढ़ें२४ कथासरित्सागर तत्त्वं च नाम विज्ञातं नह्येतत्स्यादकारणम्। तत्प्रेष्य दूतं प्रष्टव्यः किं साबत्सोऽत्र जल्पति ॥११०॥ इति मन्त्रिवचः श्रुत्वा राजा बाहुबलस्ततः। प्रष्टुं तत्ग्राहिणोद्दूतं तस्मै सुखधनाय सः ॥१११॥ स दूतस्तं तदादेशाद् गत्वा मावञ्च पृच्छति। तान्मानपरा सास्मै स्ववृत्तान्तं तमभ्यधात् ॥११२॥ श्रुत्वैव च तदाश्चर्यं रूपं तस्याश्च वीक्षितुम्। गृहे सुखधनस्यागात्सार्थलोमो महीपतिः ॥११३॥ तत्रापश्यत्सुखधने प्रह्वे मानपरां स ताम्। विधातुरपि लावण्यलक्ष्म्या विस्मयदायिनीम् ॥११४॥ पावानतायाः सोऽस्याश्च पृष्टायाश्च स्वयं मुखात्। अशृणोत्तद्यथावृत्तमर्थलोभस्य शुष्पतः ॥११५॥ श्रुत्वा च मत्वा सत्यं तदर्थलोमे निरुत्तरे। तामपृच्छत्स सुमुखीं किमिदानीं भवत्विति ॥११६॥ ततः सा निश्चितावादीद्देव येनास्म्यनापदि। विक्रीतान्यस्य निःसत्त्वं सुखं कथमुरैमि तम् ॥११७॥ एतच्छ्रुत्वा नृपे तस्मिन्साधूक्तमिति वादिनि। अवोचत्सोऽर्थलोमोऽत्र कामक्रोधमपाकुरु ॥११८॥ अयं सुखधनो राजन्नहं चानुचरैर्विना। युध्यावहे स्वसेन्याभ्यां सत्त्वासत्त्वमवेक्षताम् ॥११९॥ इत्यर्थलोमस्य वचः श्रुत्वा सुखधनोऽभ्यधात्। तर्हि युध्यावहे द्वावेव द्वावेव किमु सैनिकैः ॥१२० ॥ यः प्राप्स्यति जयं मानपरा तस्य भविष्यति। श्रुर्वरद् बाढमस्त्वेवमिति राजाऽप्यभाषत ॥१२१॥ ततो मानपरायां च राज्ञि चावेक्षमाणयोः। युद्धभूमिं नृपाख्यां साववातरतामुभौ ॥१२२॥ प्रवृत्ते चाहवे तत्र कुन्ताघातोत्पतद्धयम्। अर्थलोमं सुखधनः पर्यक्षिपदसुपातले ॥१२३॥ तमेव शरारेस्त्रीनन्यान्हत्वाश्च पतितः क्षितौ। वीर्य्यन्धम॑योधी स न् ते सुखधनोऽब्रवीत् ॥१२४॥