कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 245, कुल 1079 में से
संदर्भ में पढ़ें२१६ कथासरित्सागर त्वत्स्नेहाकृष्यमाणश्च पणीकृत्य स्वजीवितम्। उत्तीर्य कान्तारशतं प्राप दग्धोऽम्बुधस्तटम् ॥२००॥ तत्र हेमपुरस्थोऽस्म वेश्या राज्यधराभिध। मद्द्वितीयाय मिश्रितं प्रादाच्चक्रविमानकम् ॥२०१॥ तस्मिन्नारुह्य भयदं हा मूर्त्तं इव साहसे। अब्धिकान्तरमुल्लङ्घ्य प्राप्तावावामिदं पुरम् ॥२०२॥ एतदर्थमसावद्य हा हंसीति वदन्निह। भ्रान्तो देवि मम स्वामी यावत्प्राप्तस्त्वदन्तिके ॥२०३॥ इदानीं स्वमुखाकाररागारमणदर्शनात्। असंस्यदुःखसन्धिप्यन्तमताप्यातिमदनुते ॥२०४॥ तदृदृष्टिनीरुजनलिनखआजय महाविधिम् ॥२५॥ एव वचो विरचितं गोमुखस्य निशम्य सा। संवादप्रत्ययात् सत्यं मेने कर्पूरिका तदा ॥२०६॥ अहो मय्यार्यपुत्रस्य स्नेहोऽमुष्य मुधैव मे। विरक्तताभूदित्यन्तः प्रेमार्द्रा विममर्श सा ॥२०७॥ उवाच नाहं सत्यं सा हंसी यन्मां च यत्कृते। एवं जन्मद्वये क्लेदामार्यपुत्रोऽनुभूतवान् ॥२०८॥ तदहं वोऽधुना दासी प्रेमप्रीतेति वादिनी। नरवाहनदत्तं च स्नानाद्यैः समभागयत् ॥२०९॥ ततः परीवारमुखेनेदत् सर्वमबोधयत्। पितरं स्वं स चोपागात्तद् बुद्ध्वैव स्वदन्तिकम् ॥२१०॥ तत्रोत्पन्नविवाहेच्छां सुतां सो तद्वरं यथा। नरवाहनदत्तं च सम्प्राप्तमुचितं चिरात् ॥२११॥ विद्याधरमहाचक्रवर्त्तिलक्षणलाञ्छितम् । दृष्ट्वा कृतार्थमात्मानं यसोऽमन्स्यत तथा नृपः ॥२१२॥ प्रहृष्टो चात्मजामन्तां तस्मै कर्पूरिकां ततः। नरवाहनदत्ताय यथाविधि स सादरम् ॥२१३॥ प्रादात्तस्मै च जामात्रे प्रतिपत्तिप्रदक्षिणम्। कोटीस्तिस्रः सुवर्णस्य कर्पूरस्य च तावतीः ॥२१४॥