कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 249, कुल 1079 में से
संदर्भ में पढ़ें२२० कथासरित्सागर कञ्चिद्राज्यधरस्य त्वं भ्राता प्राणधरोऽग्रजः । नानायन्त्रप्रयोगाणां कर्ता सुमहतामपि ॥२३०॥ स एव तस्य भ्राताऽहं देवो वसितु मां कृतः । इति प्राणधरः सोऽपि प्रणतः प्रत्युवाच तम् ॥२३१॥ ततो यथा राज्यधरेणोक्तं दृष्टो यथा च सः । नरवाहनदत्तस्तत्तथा तस्मै शशंस सः ॥२३२॥ अथ तेन मुदा प्राणधरेण समुपाहुते । महाविमानेऽनुमतः श्वशुरेणाथ भूभुजा ॥२३३॥ तमामन्त्र्य समारोप्य दासीकर्पूरकाञ्चनम् । तेन राज्ञाविसृष्टेन सह प्राणभरेण सः ॥२३४॥ तेन च शत्रुमुख्येन स्वश्वशुरचितमङ्गलः । कर्पूरिकां राजपुत्रीं नवामादाय तां वधूम् ॥२३५॥ दत्तदानो द्विजातिभ्यः सहस्रनिचयैश्च तैः । नरवाहनदत्तोऽसावारुरोह सगोमुखः ॥२३६॥ पूर्वं गच्छेस्तटं तावद्धामो राज्यधरान्तिकम् । ततो गृहमिति प्राणधरं तं निजगाद सः ॥२३७॥ ततस्तनाहृतनाशु विमाने मोत्पपात सः । नभो मनोरथेनेव पूर्णेन सपरिग्रहः ॥२३८॥ क्षणादुत्तीर्य जलधिं पुनस्तत्सीरवर्ति च । प्राप हेमपुरं धाम तस्य राज्यधरस्य यत् ॥२३९॥ तत्र राज्यधरः प्रह्वं प्रहृष्टः भ्रातृदर्शनात् । दासीभिस्तमदासीक संविभेजे च सोत्सवम् ॥२४०॥ आपृच्छ्य च तमुदार्यं कथमप्युज्झिताग्रजम् । ययौ तेनैव कौशाम्बीं विमानेन सर्वैव सः ॥२४१॥ तत्राम्बरादशङ्कितमवतीर्णं वरविमानबृहन् घम् । सानुचरं नववध्वा युक्तं दृष्ट्वा विसिस्मये जनता ॥२४२॥ पौरोत्साहे प्रवृत्तं पुत्रं बुद्ध्वा पितास्य वत्सेशः । प्रीतो निरगादग्रे देवीसचिवस्तनुपादिभिः सहितः ॥२४३॥ दृष्ट्वा विमानवाहनमूचितभवितव्यसचरसाभाग्यम् । स सोऽभिमन्दत सुतं राजा धरण्यानतं वधूसहितम् ॥२४४॥