भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 265, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 265

२३६ कथासरित्सागर लावणकाधिराज्यस्य पौरवस्यस्य भूपतेः। सुता सुलोचना नाम चतुर्थी चारुलोचना ॥४५॥ चीनवङ्गपते राज्ञः सुरोहस्यात्मसम्भवा। हारिहेमावदाताङ्गी विद्युन्मालेति पञ्चमी ॥४६॥ कान्तिसेनस्य नृपतेः श्रीकण्ठविषयप्रभोः। सुता कान्तिमती नाम षष्ठी कान्तिजिताप्सराः ॥४७॥ जनमेजयभूपस्य कौशाम्बीनगरीपतेः। तनया परपुष्टाख्या सप्तमी मञ्जुभाषिणी ॥४८॥ अविज्ञातहृतानां च तासां बुद्ध्वापि बान्धवाः। विद्याबलोद्धते तस्मिन्नासंश्चेतसवृतयः १ ॥४९॥ ताभिश्चोपात्तविद्याभिः समं युगपदारमत्। विद्याधरर्षितानेकस्नेहः सूर्यप्रभोऽत्र सः ॥५०॥ नभोविहारसङ्गीतपानगोष्ठ्यादिभिस्तथा । चिक्रीड सहितस्ताभिः प्रहस्ताद्यैश्च मन्त्रिभिः ॥५१॥ दिव्यचित्रकलाभिश्च लिखंश्चिद्याधराङ्गनाः। कुर्वंश्च नर्मवक्रोक्तीः कोपयामास ताः प्रियाः ॥५२॥ रेमे च तासां वदनैः सभ्रभङ्गारुणेक्षणैः। वचनैश्च सकम्पौष्ठपुटविस्खलिताक्षरैः ॥५३॥ सर्वारस्ताम्रलिप्तीं च गत्वोद्यानेषु सेश्वरः। स राजसूनुर्व्यहरत् समं मदनसेनया ॥५४॥ स्थापयित्वा प्रियाश्चात्र भूतासनविमानगः। जगाम वज्रसाराख्यं प्रहस्तेनसखः पुरम् ॥५५॥ जग्राह तत्र समयां राज्ञो रम्भस्य पश्यतः। रक्तां तारावली नाम दह्यमानां स्मराग्निना ॥५६॥ आययौ ताम्रलिप्तीं च पुनस्तत्राप्युपाहरत्। अपरां राजतनयां कन्यां नाम्ना विलासिनीम् ॥५७॥ तदर्थं कुपितायातं तस्या भ्रातरमुद्यतम्। स गङ्गायुधं नाम विद्यया स्तम्भितं व्यधात् ॥५८॥ १ मुग्धाश्चेतसवृत्तयः। २ वज्रप्रभाख्ये चेत्यवप्रभा।