कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 283, कुल 1079 में से
संदर्भ में पढ़ें५४ कथासरित्सागरे अन्येद्युश्च विमानेन सहसूर्यप्रभा ययुः। चन्द्रप्रभाद्याः सर्वे ते चीनदेशं सपौरखाः ॥१७५॥ तत्राग्रे निर्गतो राजा निजकोट्टं प्रवेश्य तान्। स सुराहोऽपि दुहितुश्चक्रे वैवाहिकं विधिम् ॥१७६॥ अवाञ्च विद्युन्मालायै तस्यै सूर्यप्रभाय च। असङ्ख्यहयहस्त्यश्वरत्नचीनांशुकादिकम् ॥१७७॥ तस्थुश्च तत्र त तैस्तद्भोर्गैश्चन्द्रप्रभादयः। दिनानि कतिचित्सर्वे सुरोहाभ्यर्चितास्तदा ॥१७८॥ आसीत् सूर्यप्रमश्चात्र विलसद्धनयौवनः¹। प्रावृट्कालो यथा विद्युन्मालया शोभितस्तया ॥१७९॥ एवं स बुभुजे तत्र तत्र श्वशुरवेश्मनि। तत्तत्कान्तासखः सूर्यप्रभो भोगान्सबान्धवः ॥१८०॥ ततः समन्त्र्य सिद्धार्थप्रमुखैः सचिवैः सह। ध्रमाङ्गारभटादींस्तानस्वीयसहिता नृपान् ॥१८१॥ विसृज्य निजदेशेषु तं सुरोहमहीपतिम्। आमन्त्र्य सत्कृतामुक्तः पितृभ्यां सह सानुगः ॥१८२॥ भूशासनविमानं तदारुह्य व्योमवर्त्मना। स्वं स सूर्यप्रभः प्रायाच्छाकल नगरं कृती ॥१८३॥ क्वचिन्मृदङ्गसङ्घः क्वचिदपि च सङ्गीतकरवैः। क्वचित् पानक्रीडा क्वचन सुदृशां मण्डनविधिः। क्वचिदप्याभीष्टस्तुतिमुखरवैतालिकरवः पुरे सन्निभ्रासीत्प्रमद इति तस्यागमनजः ॥१८४॥ सभार्य्या पितृवेश्मसु स्थितवतीरानाय्य स स्वप्रियाः। दत्तैस्तत्पितृभिर्गजाश्वनिवहहस्ताभि सहवागतैः। नानारत्नमपूर्णभारविभवैरूष्ट्रैश्च रोष्यादिगं लीलानर्त्तितदिग्गजपोत्यविभवञ्चक्रे प्रजाकौतुकम् ॥१८५॥ १ प्रावृट्पक्षे--विलसत् घनानां यौवनं यस्मिन् सूर्य प्रभपक्षे--विलसद् घनं यौवनं यस्य। २ प्रावृट्पक्षे--विद्युतां मालयापहस्तया, शोभितः सूर्यप्रभपक्षे तन्नाम्न्या वीणाविद्येति गन्तव्या। ३ अङ्गमेवायनात्।