भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 285, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 285

२५६ कथासरित्सागर बहुवसुभूरिनिधानं सन्न महाभोगिना तदाध्युषितम्। सुर'-दानव'-भुजग'-नगरैः कृतमिव तच्छाकलं विभौ॥१८६॥ ततो मदनसेनया सह स तत्र सूर्यप्रभो यथामिमतभोगभुक्सकलपूर्णसम्पत्सुखी । उवास पितृसंयुतः ससचिवोऽन्यपत्नीयुत श्कृतागमनसंविदं मयमुदीक्षमाणोऽन्वहम्॥१८७॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके प्रथमस्तरङ्गः

द्वितीयस्तरङ्गः चत्रप्रभसभायां मयदानवस्यापगमनम्

अथ तत्रैकदास्थानस्थितं चन्द्रप्रभे नृपे। सूर्यप्रभे च तत्रस्थे समग्रसचिवान्विते॥१॥ सिद्धार्थोदीरितकथाप्रसङ्गेन मये स्थिते। अकस्मादत्र वसुधा सभामध्ये व्यदीर्यत॥२॥ ततो भूविवरादादौ सद्यन्धः सुरभिर्मरुत्। आविरासीत्ततः पश्चादुज्जगाम मयासुरः॥३॥ शृङ्गोन्नतांसधिरः पृथुह्रस्वस्नेहमहौषधिः। रक्ताम्बरोष्ठमद्धातुमिश्रायामिव पर्वत॥४॥ यथार्हकृतपूजश्च राजा चन्द्रप्रभेण सः। रत्नासनोपविष्टः सन् दानवेन्द्रोऽभ्यभाषत॥५॥

१ सुरनगरं = स्वर्गः; बहवो वसवः तन्नामका देवता यत्र तत्तादृशम्; शाकलं नगरं च बहु = भूरि वसु = धनं यत्रेति बहुवसु । २ यक्षस्य = कुबेरस्य नगरं भूरिनिधानं शङ्कादिवपुष्करम् शाकलं च भूरिनिधानम् = इतरस्याविशेषपुष्करम्। ३ पाताल भुजगनगरं महाभोगिना = सर्पराजा वासुकिना अध्युषितम् = अधिष्ठि- तम् शाकलं नगरञ्च महाभोगिना महाविलासिना सूर्यप्रभेनाधिष्ठितम्। ४ विहितागमनसुसंवादम्। ५ आस्थानं = सभा गृहम्। ६ तत्र वार्त्तायामेव मयान् निर्गतासीत्।