कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 317, कुल 1079 में से
संदर्भ में पढ़ेंप्रबुद्धेन ह्यनेनाहमुक्तः कृत्वा भवत्कथाम्। कुतोऽपि दर्शयानीय हा मे प्राणिति नान्यथा॥२०८॥ सतोऽहं त्वामुपायातस्तदेषाऽलोक्य स्वयम्। इति प्रहस्तेनोक्ता सा कन्यामुलभया ह्रिया॥२०९॥ प्रसङ्ग नाशकद् गन्तुं विमृशन्ती यदा तदा। हस्त गृहीत्वा नीताभूत् तेन सूर्यप्रभान्तिकम्॥२१०॥ सूर्यप्रभश्च तां दृष्ट्वा पार्श्वयातां कलावतीम्। उवाच 'चण्डि युक्तं ते किमेतद्यदिहाद्य मे॥२११॥ त्वया सुप्तस्य चौर्येण प्रविश्य हृदयं हृतम्। तदिहाभिगृहीता त्वं चौरि न त्यक्ष्यसे मया'॥२१२॥ एतच्छ्रुत्वा विहस्या सा तत्सखी व्याजहार तम्। पूर्वं ज्ञातश्च पित्रेव चौर्य्यं निग्रहाय ते॥२१३॥ निश्चितोऽर्पयितुं यस्मात् तस्मात् कस्ते निषेधकः। अस्यास्त्वौर्ध्वस्थितं कामं निग्रहं करोषि किम्'॥२१४॥ तच्छ्रुत्वाऽऽलिङ्गितुं सूर्यप्रभे वाञ्छति सत्रपा। मा मार्य्यपुत्र कन्यास्मीत्यवोचत् सा कलावती॥२१५॥ ततः प्रहस्तोऽब्रवीत् तां मा विकल्पोऽस्तु देवि ते। गान्धर्वो ह्येष सर्वेषां विवाहानामिहोत्तमः॥२१६॥ इत्युक्त्वैवं समं सर्वैः प्रहस्ते निर्गते बहिः। सूर्यप्रभस्तदैवैतां भार्यां चक्रे कलावतीम्॥२१७॥ तया सह च पातालकन्यया मर्त्यदुर्लभम्। भेजे सुरतसम्भोगमचिन्त्यनरसङ्गमम्॥२१८॥ राज्यन्ते च कलावत्यां गतायां वसतिं निजाम्। सूर्यप्रभः सुमीथस्य ययौ पार्श्व मयस्य च॥२१९॥ तं मिलित्वाथ सर्वेऽपि प्रह्लादस्यान्तिकं ययुः। स तान्याथाईं सम्मान्य सभास्थो मयमब्रवीत्॥२२०॥ सुनीथस्योत्सवेऽमुष्मिन् प्रियं कर्त्तव्यमेव नः। तदद्य यावत् सर्वेऽपि वयमेकत्र भुञ्ज्महे॥२२१॥ एवं कुर्मोऽत्र को दोष इत्युक्ते च मयेन सः। दूतानिमंत्रणामास प्रह्लादोऽत्रासुराधिपान्॥२२२॥