भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 319, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 319

२४८ कथासरित्सागर आयुयुश्चात्र सर्वेभ्यः पातालेभ्यः क्रमेण ते। पूर्वमागाद् बली राजा महासत्त्वैर्महासुरैः ॥२२३॥ अनन्तरमभीरुश्च दुरारोहश्च वीर्यवान्। सुमायस्तन्तुकच्छश्च विकटाक्षः प्रकम्पनः ॥२२४॥ धूमकेतुर्महामायो ये चान्येऽप्यसुरेश्वराः। एकैको निजसामन्तसहस्रगणयो वृतः ॥२२५॥ अपूर्यत सभा तैश्च विहिताऽन्योन्यवन्दनैः। यथाक्रमोपविष्टांश्च प्रह्लादस्त्वानमानयत् ॥२२६॥ प्राप्ते चाहारकाले ते सर्वे सह मयादिभिः। गङ्गास्नाता समाजग्मुर्भोजनाय महासभाम् ॥२२७॥ शतयोजनविस्तीर्णां सुवर्णमणिकुट्टिमाम्। रत्नस्तम्भचितां न्यस्तविचित्रमणिभाजनाम् ॥२२८॥ तत्र प्रह्लादसहिताः ससुनीथमयाश्च ते। सूर्यप्रभेण सचिवैर्युक्तेन च सहासुराः ॥२२९॥ तत्तन्नानाविधं भक्ष्यभोज्यलेह्यादि षड्रसम्। दिव्यमन्नं बुभुजिरे पपुः पानमथोत्तमम् ॥२३०॥ भुक्तपीताश्च गत्वान्यत् सर्वे रत्नमयं सदः। दैत्यदानवकन्यानां ददृशुर्नृत्तमुत्तमम् ॥२३१॥ महल्लिकायाः प्रेम तत्रसङ्गे ददर्शान प्रनृत्तां पितुराज्ञया। प्रह्लादस्य सुतां सूर्यप्रभो नाम्ना महल्लिकाम् ॥२३२॥ द्योतयन्तीं दिशः कान्त्या वर्षन्तीममृतं दृशोः। कौतुकादिव पातालमागतां मूर्तिमन्दभीम् ॥२३३॥ रुञ्झाटदिसमोपेतां चारुनूपुरपादिकाम्। स्मेरसृष्टिं विधात्रेव सृष्टां नृत्तमयीमिव ॥२३४॥ नेत्रोरारौर्वदनेनैः शिञ्जारैर्विभ्रतीं स्तनौ। उरोमण्डलिनीं नृत्तं सृजतीमिव नूतनम् ॥२३५॥ दृष्ट्वैव च तदा चण्डी तस्य सूर्यप्रभस्य सा। अपि स्वीकृतमन्याभिर्जहार हृदयं हठात् ॥२३६॥ ततः साभ्यसुरन्द्राणां मध्ये दृष्ट्वाऽर्हदत्त एतम्। हरदग्धे स्मरे सृष्टं धात्राऽपरमिव स्मरम् ॥२३७॥