भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 331, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 331

महल्लिकां तां स्वसुतां प्रादात् सूर्यप्रभाय सः। प्रह्लादात्सुरसाम्राज्यसमृद्धिमिवविभूतिभिः ॥३१३॥ ददौ सप्तलराधीशः स दुहित्रे वराय च। त्रिदशावजयानीतान् सुमेरुशिखरोपमान् ॥३१४॥ तात ता अपि दत्स्वस्मै सखीर्मे द्वादश प्रियाः। एव महल्लिका स्वैरं प्रह्लादं सा तदाब्रवीत् ॥३१५॥ पुत्रि मद्भ्रातृषीमास्तास्तेन बन्दीकृता यतः। मम दातुं न युज्यन्ते इति सोऽपि जगाद ताम् ॥३१६॥ कृतोद्वाहोत्सवश्चास्मिन् याते सूर्यप्रभो दिने। विवेश वासकं नक्तं स महल्लिकया सह ॥३१७॥ सर्वकामोपचाराढ्यं तत्र च सुरतोत्सवम्। अनया समन.प्रीतिसौख्यं सोऽनुबभूव च ॥३१८॥ प्रातर्गतं च प्रह्लादं सभां तस्मिन् सहानुगे। अभीलो दानवाधीशः प्रह्लादादीनभाषत ॥३१९॥ अद्य युष्माभिरखिलैरागन्तव्यं गृहे मम। तत्रातिथ्यं यतः सूर्यप्रभस्यास्य करोम्यहम् ॥३२०॥ सुतां कसावतीं तस्मै ददामि यदि वा हितम्। एतत्तद्वचनं सर्वे तथेति प्रतिपेदिरे ॥३२१॥ ततो द्वितीयं पातालमेतस्मिन्नेव क्षणे च ते। सर्वे जग्मुः समं सूर्यप्रभेण समयादिना ॥३२२॥ तत्राभीलो ददौ तस्मै सुतां सूर्यप्रभाय ताम्। कसावतीं प्रप्रियया दत्तारमानमपि स्वयम् ॥३२३॥ कृत्वा विवाहं प्रह्लादगृहे भुक्त्वासुरान्वितः। निन्ये भोगापचारेण दिनं सूर्यप्रभाय तत् ॥३२४॥ द्वितीयेऽह्नि तथैवैतान् कुराहाख्योऽसुरेश्वरः। निमन्त्र्य सर्वाननयत् पञ्चमं स्वरसातलम् ॥३२५॥ तत्र सूर्यप्रभाय स्वां नाम्ना च कुमुदावलीम्। प्रादादुपगतातिथ्यहृतार्विधियदारमजाम् ॥३२६॥ तत्र सर्वे गमनरतभोगैर्नीत्वा दिनं च तत्। यागतं कुमुदावत्या भेव सूर्यप्रभा निशि ॥३२७॥