भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 333, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 333

६२ कथासरित्सागर तत्र त्रिलोकसुन्दर्या नवसङ्गमसोत्कया। स स्निग्धमुग्धया साक तया रात्रिमुवास ताम् ॥१२८॥ प्रातश्च सन्तुष्टच्छेन प्रह्लादप्रमुखैर्वृतः । निमन्त्र्य सप्तमं निन्ये पाताल स स्वमन्दिरम् ॥१२९॥ तत्रासुरपति सोऽस्मै सुतां नाम्ना मनोवतीम् । ददौ सरत्नाभरणां तप्तजाम्बूनदद्युतिम् ॥१३०॥ तत सूर्यप्रभ सोऽत्र नीत्वाधिकसुख दिनम् । मनोवतीनवाश्लेषसुखिनीमनयन्निशाम् ॥१३१॥ अपरेद्युश्च स सर्वयुक्त कृतनिमन्त्रणः । पातालमनयत् षष्ठ स्व सुमायो सुराधिपः ॥१३२॥ तत्र सोऽपि ददौ तस्मै सुभद्रां नाम कन्यकाम् । दूर्वास्तश्यामलाङ्गीं मूर्ति पाञ्चशरीमिव ॥१३३॥ तया सुरतसंभोगयोग्या श्यामयात्र सः। सहासीत्तदह सूर्यप्रभ पूर्णन्दुवक्त्रया ॥१३४॥ अन्येद्युश्च बली राजा तद्वदेव निनाय तम्। सूर्यप्रभ स्वपाताल तृतीय सोऽसुरानुग ॥१३५॥ सोऽपि तत्र सुतां तस्मै सुन्दरी नाम दत्तवान् । बालप्रवालसच्छायां माधवीमिव मञ्जरीम् ॥१३६॥ स्त्रीरत्नेन समं तेन रेमे सूर्यप्रभोऽत्र सः। सुरञ्जितसतद्दिवस दिव्यभोगविभूषितम् ॥१३७॥ अपरेऽह्नि मय सोऽपि राजपुत्रं तथैव तम्। चतुर्थपातालगतं भूयोऽनैषीत् स्वमन्दिरम् ॥१३८॥ विचित्ररत्नप्रासाद निजमायाविनिर्मितम् । नव नवमिवाभासमानं लक्ष्म्या प्रतिदणम् ॥१३९॥ तत्र सोऽपि ददौ तस्मै सुमायाख्यां निजां सुताम्। जगदाश्चर्यरूपां स्वां शक्तिं मूर्त्तिमतीमिव ॥१४०॥ मानुषत्वाच्च तस्मै तां मैवादेयाममन्यत । सोऽपि रेमे तया साकमत्र सूर्यप्रभ कृती ॥१४१॥ विद्याविभक्तदेहोऽथ सर्वाभिर्युगपत् सह। अरंस्तासुरकन्याभिस्ताभि रह नृपात्मज ॥१४२॥