भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 337, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 337

६६ कथासरित्सागर एवं सूर्यप्रभेणोक्ता रुषाऽवोचन्महल्लिका। मत्सपक्षं बहस्त्वन्या मद्व्यवस्थास्तु नेच्छसि ॥३५७॥ यामिवियुक्ता रज्येयं नाहमेकमपि क्षणम्। इत्युक्तस्तु तया सूर्यप्रभस्तुष्ट्यानमस्त तत्॥३५८॥ ततस्तत्रैव पाताल नीत्वैव प्रथमं स्वया। प्रह्लादसुतया तस्मै प्रदत्ता द्वादशापि ताः॥३५९॥ अथामृतप्रभामुख्यास्ताः स सूर्यप्रभ क्रमात्। परिणीयोपभुङ्क्ते स्म तस्या दिव्याङ्गना निशि॥३६०॥ प्रातश्च ताः प्रभासेन नाययित्वा रसातलम्। चतुर्थं स्थापयामास प्रच्छन्नाः पृष्ट्वा महल्लिकाम् ॥३६१॥ स्वयं चालक्षितः साकं तया तत्रैव सोऽगमत्। सभाजनाय च प्राग्बत् प्रह्लादस्य सभां मयौ ॥३६२॥ तत्रासुरेन्द्रो वक्ति स्म तं सुनीथ मयं च सः। यात सर्वे दितिदन् द्रष्टुं वेम्बायुभे इति॥३६३॥ तथेत्यथ रसातलात् सपदि निर्गतास्ते ततो। यथास्वमसुरैः समं मयसुनीथसूर्यप्रभाः॥ विमानमनुचिन्तितं तदधिरुह्य भूतासनं। सुमेरुगिरिसानुगं प्रययुरश्रमं काश्यपम् ॥३६४॥ तत्र ते दितिवनू सह स्थिते सावरैर्मुनिजनैरनिवेदिताः। अभ्युपेत्य ववृधुः क्रमण ते पादयोश्च शिरसा ववन्दिरे॥३६५॥ ते च तानसुरमातरावुभे सानुगान् समवलोक्य सादरे। साधु मूर्द्धिन परिचुम्ब्य संमदावाशिषोऽनुपदमूचतुर्मयम् ॥३६६॥ प्राप्तजीवितममुं तवात्मजं वीक्ष्य पुत्रक सुनीथमावयोः। अद्युरद्य सफलत्वमागतं त्वां च पुण्यकृतमेव मन्महे ॥३६७॥ सुमुण्डीकं धत्त कृतिनमिह सूर्यप्रभतया पुनर्जातं विख्यातुं स्थिरमसाधारणगुणम्। चितं भाविध्येयः प्रथमपिपुनैर्लक्षणगुणै- र्विलोक्यान्वस्तोपात् स्फुटमिह नमावः स्ववपुषि॥३६८॥ गच्छीदामुत्तिष्ठत यात वत्साः प्रजापतिं द्रष्टुमिहार्यपुत्रम्। तद्दर्शनाद्धो भविताऽर्थसिद्धिः कामं च वस्तद्वचनं शिवाय ॥३६९॥