कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 341, कुल 1079 में से
संदर्भ में पढ़ें११० कथासरित्सागर यश्च हयग्रीवास्यो विकटाक्षश्चासुरावभूतां द्वौ। स्थिरबुद्धिमहाबुद्धी उत्पन्नावस्य ताविमौ सचिवौ ॥३८३॥ अन्येऽप्यस्य य एते श्वसुराः सचिवादिबान्धवा ये च। तेऽप्यवतीर्णा असुरा यैरिन्द्राद्या पुरा जिता बहुशः ॥३८४॥ तद्युष्माकं पक्षः पुनरप्येवं क्रमाद् गतो वृद्धिम्। धीरा भवत समृद्धिं प्राप्स्यथ धर्मादनभिच्युताः परमाम् ॥३८५॥ इति वदति कश्यपर्षौ दाक्षायण्यः¹ किलास्य पत्न्योऽत्र। अदितिप्रमुखाः सर्वा माध्यन्दिनसवनसमये आजग्मुः ॥३८६॥ दत्त्वाशिषं मयादिषु नमत्सु भर्तुः कृपान्तिकात्तासु। तास्वथ शक्रोऽत्रागात् सलोकपालोऽपि तं मुनिं द्रष्टुम् ॥३८७॥ वन्दितसदारकश्यपमुनिचरणो वन्दितो मयाद्यैश्च। सोऽथ सरोषं पश्यन् सूर्यप्रभमुक्तवानथ शक्रः ॥३८८॥ 'एषोऽर्भकः स जाने विद्याधरचक्रवर्त्तिताकामः। तदहो स्वल्पेन कथं सन्तुष्टो मेन्द्रतां किमर्थयते' ॥३८९॥ तन्श्रुत्वैव मयस्तं जगाद 'देवेन्द्र ! तत्त्वयीन्द्रत्वम्। परमेश्वरेण निर्मितमादिष्टं चास्य खेचरेश्वरत्वम् ॥३९०॥ इति मयवचनान्मघवा स तदा विहसन्नुवाच सामर्षः। 'अत्यल्पं हि तपस्या सुमहज्जगत्याकृतेरुपम्येति' ॥३९१॥ अथ स मयोऽप्यवदत् श्रुतशर्मा यत्र खेचरेन्द्रत्वे। योग्यस्तत्रासंशयमाकृतिरस्यायमर्हतीन्द्रत्वम्' ॥३९२॥ इत्युक्तवते तस्मै मयाय कुपितः स वज्रमुद्यम्य। मघवोत्ससर्ज कश्यपमुनिरकरोच्चाथ कोपहुङ्कारम् ॥३९३॥ धिक्कारमुखरताम्रेवदने कोपं ययुश्च दित्याद्याः। तत इन्द्रः शापभयादुपविशत्संहृतायुधोऽनमत् ॥३९४॥ प्रणिपत्य पादयोरथ दारयुतं तं सुरासुरप्रभवम्। कश्यपमुनिं प्रसाद्य च विज्ञापितवान् कृताञ्जलिः शक्रः ॥३९५॥ श्रुतशर्मणे मया यद् भगवन्विद्याधराधिराज्यत्वम्। दत्तं तदेष हर्तुं सूर्यप्रभवोद्यतोऽधुना तस्य ॥३९६॥ १ दक्षप्रजापतेः कन्यकाः ।