भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 355, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 355

[Page 324] कथासरित्सागर

ततस्तेजःप्रभो नाम तं जिघृक्षुरुपागमत् । सर्पं विद्याधराधीशः सोऽन्यक्षेपि तथाऽमुना ॥६६॥ ततस्तं दुष्टदमनो नाम विद्याधरेश्वरः । उपागात्सोऽपि निःश्वासेनाप्यबलेन विक्षिपे ॥६७॥ ततो विरूपघण्टाख्यः खेचरेन्द्रस्तमभ्यगात् । सोऽपि तेन तथैवास्तः१ श्वासेन सुगहेरया ॥६८॥ अयाम्यधावतां तद्वद्वङ्कारबिज्ज्मकौ । राजानौ युगपत्कौ च दूरे श्वासेन सोऽक्षिपत् ॥६९॥ एवं विद्याधरधीशाः षण्मात्सर्यैऽपि तेन ते। क्षिप्ताः कथम्चिदुत्तस्थुरर्जरामारूषूजिते २॥७०॥ ततो दर्पेण तं सर्पं श्रुतशर्माभ्युपेयिवान् । जिधृक्षुः सोऽपि तेनात्र विक्षिपे श्वासमारुतैः ॥७१॥ मदूरपतितः सोऽथ पुनरुत्थाय धावितः । तेन दूरतरं नीत्वा श्वासेनाक्षेपि भूतले ॥७२॥ विरूक्षे चूर्णिताङ्गेऽस्मिन्नुत्थिते श्रुतशर्मणि । सूर्यप्रभोऽह्वयैद्ग्रहणे प्रेषितोऽभूत्सुमेरुणा ॥७३॥ पश्यतैषोऽप्यजगरं ग्रहीतुमिममुत्थितः । अहो इमे निर्विचारा मर्कटा इव मानुषाः ॥७४॥ अन्येन क्रियमाणं यत्पश्यन्त्यनुहरन्ति तत् । इति विद्याधराः सूर्यप्रभं ते जहसुस्तदा ॥७५॥ तेषां प्रहसतामेव गत्वा सूर्यप्रभेण सः । स्तिमितास्यो गृहीतश्च दृष्टश्चाजगरो द्विधात् ॥७६॥ तत्क्षणं प्रतिपेदे स भुजङ्गस्तूणरत्नताम् । मूर्ध्नि सूर्यप्रभस्यापि पुष्पवृष्टिर्दिवोऽपतत् ॥७७॥ सूर्यप्रभाद्ययं तूणरत्नं सिद्धमिदं तव । तद्गृहाणतदित्युच्चैर्दिव्या वागुदभूत्तदा ॥७८॥ ततो विद्याधरा ग्लानिं ययुः सूर्यप्रभोऽग्रहीत् । तूणं मयसुनीथौ च सुमेरुश्चाभजन्मुदम् ॥७९॥


१ विक्षिप्तः; अशु रूपने बत्तुः । २ प्रस्तराघातेन भग्नेः ।