भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 361, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 361

३३० कथासरित्सागर तस्यास्ति मोहिनी नाम विद्या तेन स दुर्जयः। नूनं सा स्थापिता तेन प्रधानस्य रिपोः कृते॥११०॥ अत प्रयुक्ता नैतेषु स्वद्वयस्येषु सम्प्रति। सकृच्च हि सा तस्य फलदा न पुनः पुनः॥१११॥ गुरावेव हि सा तेन प्रभावावेक्षणाय भोः। प्रयुक्ताऽभूवत क्षापस्तेन वसोऽस्य तादृशः॥११२॥ तच्चिन्त्यमेतद्विद्यानां प्रभावो हि दुरासदः। तत्कारणं च भवता पृच्छ्यतां भगवान् मयः॥११३॥ अस्याग्रे किमूहं वच्मि कः प्रदीपो रखेः पुरः। एवं सुमेरुणा सूर्यप्रभस्योक्ते मयोऽब्रवीत्॥११४॥ सत्यं सुमेरूमोक्तं ते सङ्क्षेपाच्छृणु वच्म्यहम्। 'अव्यक्तात् प्रभवन्तीह तास्ताः शक्त्यनुशक्तयः॥११५॥ तत्रोद्गतः प्राणशक्तेर्नादो बिन्दुपधाश्रितः। विद्यादिमन्त्रतामेति परतत्त्वकलान्वितः॥११६॥ साक्षां च मन्त्रविद्यानां ज्ञानेन तपसापि वा। सिद्धांश्या वा सिद्धानां प्रभावो दुरतिक्रमः॥११७॥ तत्पुत्र सर्वविद्यास्ते सिद्धा द्वाभ्यां तु हीयसे। मोहिनीपरिवर्त्तिन्यौ न विद्ये साधिते त्वया॥११८॥ याज्ञवल्क्यश्च त वेत्ति तद् गच्छ प्रार्थयस्व तम्' । एव मयोक्त्या तस्यायेंययौ सूर्यप्रभोऽन्तिकम्॥११९॥ स मुनिस्तं च सप्ताहं निवास्य भुजगह्रदे। अग्निमभ्ये भ्यहं चैव तपश्चर्यमकारयत्॥१२०॥ ददौ सोढाद्बिदंशस्य सप्ताहाच्चास्य मोहिनीम्। विद्यां विसोढवह्न्यर्चि भ्याहाद्विपरिवर्त्तिनीम्॥१२१॥ प्राप्तविद्यस्य भूयोऽपि दक्षिणाद्रुतप्रधानम्। तस्यादिदेश स मुनिः स तथेत्यकरोञ्च तत्॥१२२॥ तत्तारणं च महापद्मविमानं तस्य कामगम्। अभूदुपगतं सूर्यप्रभस्य गगनचरम्॥१२३॥ अष्टोत्तरेण पत्राणां पुराणां च शतेन यत्। असङ्ख्य महारत्ननानारूपविनिर्मितम्॥१२४॥