कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 365, कुल 1079 में से
संदर्भ में पढ़ें११४ कथासरित्सागर
ततः केनापि पुरुषेणैत्य ज्वलिततेजसा। उद्धृत्य वह्नौ क्षिप्ताः स्मो न च दह्यामहेऽग्निना ॥१४०॥ एत्याथ मेघो रक्तौघं प्रवृष्टस्तेन चासृजा। व्याप्ता दिशस्ततो निद्रा नष्टा मे निशया सह ॥१४१॥ इत्युक्तवन्तं तं स्माह स मुनिकुमारकः। 'आयासपूर्वोऽभ्युदयः स्वप्नेनानेन सूचितः ॥१४२॥ यो बलीयः स संग्रामो धैर्यं सद्यदमज्जनम्। नृत्यतो ह्रियमाणानां जलैस्तत्परिवर्तकः ॥१४३॥ यो युष्माकं महत् सोऽपि शरणं कोऽपि रक्षिता। यश्चोद्धर्त्ता ज्वलत्तेजाः पुमान् साक्षात् स शङ्करः ॥१४४॥ क्षिप्ताः स्वाग्नौ च यत्तेन तच्छस्ताः स्थ महामृधे' । मेघोद्यस्ततो यच्च स भूयोऽपि भयागमः ॥१४५॥ रक्तौघवर्षर्ण यच्च तदुभयस्य विनाशनम्। दिशां यद्रक्तपूर्णत्वमृद्धिः सा महती च वः ॥१४६॥ स्वप्नश्चानेकधान्यार्थो यथार्थोऽन्यार्थ एव च। यः सद्यः सूचयत्यर्थमन्यार्थं सोऽभिधीयते ॥१४७॥ प्रसन्नदेवतावेशरूपः स्वप्नो यथार्थकः। गाढानुभवचिन्ताविष्कृतमाहुरपार्थकम् ॥१४८॥ रजोमूढेन मनसा बाह्यार्थविमुखेन हि। जन्तुर्निद्रावशः स्वप्नं तैस्तैः पश्यति कारणैः ॥१४९॥ चिरशीघ्रफलत्वं च तस्य कालविशेषतः। एष रात्र्यन्तदृष्टस्तु स्वप्नः शीघ्रफलप्रदः ॥१५०॥ एतन्मुनिकुमारात्ते श्रुत्वा तस्मात् सुनिर्वृताः। उत्थाय दिनकर्तव्यं व्यधुः सूर्यप्रभादयः ॥१५१॥ तावत् प्रहस्तः प्रत्यागाच्छ्रुतशर्मसकाशतः। पृष्टो मयादिभिश्चैवं यथावृत्तमवर्णयत् ॥१५२॥ 'इतो गतोऽहं तरसा त्रिकूटाचलवर्त्तिनीम्। तां त्रिकूटपताकाख्यां नगरीं हेमनिर्मिताम् ॥१५३॥
१ महासंग्रामे।