भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 367, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 367

१६४ कथासरित्सागर तस्यां प्रविश्य चापश्यमहं क्षत्तृनिवेदितः। वृतं च श्रुतशर्माणं तैस्तैर्विद्याधराधिपैः ॥१५४॥ पित्रा त्रिकूटसेनेन तथा विक्रमशक्तिना। पुरन्धरेण चान्यैश्च शूरैर्दामोदरादिभिः ॥१५५॥ उपविष्टामथ तमहं श्रुतशर्माणमभ्यधाम्। श्रीमता प्रहितं सूर्यप्रभेणाहं स्वदन्तिकम् ॥१५६॥ सन्दिष्टं तन् चेद ते प्रसादाद् धूर्जटेर्मया। विद्या रत्नानि भार्याश्च सहायाश्चैव साधिताः ॥१५७॥ तदेहि मिल सैन्ये मे सहेतैः खेचरेश्वरैः। निहन्ताहं विरुद्धानां रक्षिता नमतां पुनः ॥१५८॥ या चागम्या हृतास्ताते सुनीथतनया त्वया। कामचूडामणिः कन्या मुञ्च तामशुभं हि तत् ॥१५९॥ एव मयोक्ते सर्वे ते क्रुद्धास्तत्रैवमभ्यधुः। को नाम स यदस्मासु दर्पात् संदिशतीदृशम् ॥१६०॥ मर्त्येषु सन्दिग्धत्वेव कस्तु विद्याधरेषु सः। वराको मानुषो भूत्वाप्येवं दृप्यन्विनङ्क्ष्यति ॥१६१॥ तच्छ्रुत्वोक्तं मया किं किं को नाम स निशम्यताम्। स हरेणेह युष्माकं चक्रवर्ती विनिर्मितः ॥१६२॥ मर्त्यो वा यदि तन्मर्त्यैर्देवत्वमपि साधितम्। विद्याधरैश्च मर्त्यस्य तस्य दृष्टः पराक्रमः ॥१६३॥ माशङ्केहागते तस्मिन् कदाचिद् वो हि दृप्यते। इत्यवोक्ते मया क्रुद्धा सा सभा क्षोभमाययौ ॥१६४॥ अधावतां च हन्तुं मां श्रुतशर्मधुरन्धरौ। एवं पश्यामि शौर्यं वामित्यवोचमहं च तौ ॥१६५॥ ततो दामोदरेणैताबुत्थाय विनिवारितौ। शान्तं दूतश्च विप्रश्च न वध्य इति जल्पता ॥१६६॥ ततो विक्रमशक्तिर्मामब्रवीद् गच्छ दूत भोः। स्वस्वामीव हि सर्वेऽपि वयमीश्वरनिर्मिताः ॥१६७॥ तदायातु स पश्यामस्तस्यातिथ्यक्षमा वयम्। एवं सगर्वं तेनोक्ते विहसन्नहमब्रुवम् ॥१६८॥