कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 373, कुल 1079 में से
संदर्भ में पढ़ें१४२ कथासरित्सागर
तैरागतैः सह्याने समं स सचिवान्वितः । निशि सूर्यप्रभः प्रायाच्चन्द्रपादाचलं प्रति ॥१९८॥ गच्छतां च श्रमात्तेषामुतस्थुर्मार्गरोधिनः । यक्षगुह्यककूष्माण्डा विघ्ना नानायुधोद्यताः ॥१९९॥ कांश्चिच्छस्त्रैर्विमोह्यास्थान् कांश्चित् संस्तभ्य विद्यया । चन्द्रपादगिरिं तं ते प्रापुः सूर्यप्रभादयः ॥२००॥ तत्रैषां तद्गुहाद्वारप्राप्तानां शाङ्करा गणाः । एत्य प्रवेशं रुरुधुर्विचित्रविकृताननाः ॥२०१॥ एतैः सह न योद्धव्यं कुप्येद्धि भगवान् हरः । तस्मादष्टसहस्रेण तमथ वरदं स्तुमः ॥२०२॥ तेनैव ते प्रसीदन्ति तद्गणा इत्यवोचत । स सुवासकुमारस्तानथ सूर्यप्रभाविकान् ॥२०३॥ ततस्तथेति सर्वे ते समेत्य हरमस्तुवन् । स्वामिस्तुतिप्रसन्नाश्च तान् वदन्ति स्म ते गणाः ॥२०४॥ मुक्तैषा भो गुहास्माभिर्गृहीतास्यां महौषधीः । सूर्यप्रभेण स्वेनैत्या न प्रवेष्टव्यमात्मना ॥२०५॥ प्रभासः प्रविशत्वेतामेतस्य सुगमा ह्यसौ । एतद्गणवचः सर्वे ते तथेत्यनुमेनिरे ॥२०६॥ ततः प्रविशतस्तस्य प्रभासस्य तदैव सा । गुहा बह्वन्धकारापि सुप्रकाशा किमप्यभूत् ॥२०७॥ उत्थाय च महाघोररूपा अप्यत्र राक्षसाः । चत्वारः निष्ठुरा ऊचुः प्रणता प्रविशेति तम् ॥२०८॥ अथ प्रविश्य संगृह्य दिव्याः सप्तौषधीः स ताः । प्रभासो निर्गतः सूर्यप्रभाय निखिला ददौ ॥२०९॥ महाप्रभावाः सप्तैताः सिद्धाः सूर्यप्रभस्य ताः । ओषध्य इति तत्कालं गगनादुदनादयत् ॥२१०॥ तच्छ्रुत्वा मुदिताः सूर्यप्रभाद्याः सर्व एव ते । स्वसैन्यमायुः क्षिप्रं सुमेर्वास्पदमश्रितम् ॥२११॥ तत्रापृच्छत् सुनीतोऽथ तं सुवासकुमारकम् । मुने सूर्यप्रभं हित्वा प्रभासः किं प्रवेशितः ॥२१२॥