भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 399, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 399

३६६ कथासरित्सागर ततोऽप्रतिरसस्तृप्तस्ता विगतयन्त्रणार्गलाः परस्परमुपाविशन् सुरतायतश्राम्यपि। प्रसङ्गान्मिलिताः कथाप्रसरसक्तचित्ता मिथः स्वपन्ति न किमप्यहो यदिह नोद्वमन्ति स्त्रियः ॥१२०॥ अथ कथमपि दीर्घा सा कथा धात्र तासा- मवसितिमुपयाता सा च रात्रिः क्रमेण। तिमिरविगमवेलावेक्षणैकाभिकाङ्क्षी रिपुबलविजिगीषोस्तत्र सूर्यप्रभस्य ॥१२१॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके चतुर्थस्तरङ्गः।

पञ्चमस्तरङ्गः सूर्यप्रभस्य विद्याधरैः सह युद्धवर्णनम् अथ युद्धभुवं प्रातर्जग्मुः सूर्यप्रभादयः। श्रुतशर्मादयस्ते च सन्नद्धाः सबलाः पुनः ॥१॥ पुनश्च सेन्द्राः सब्रह्मविष्णुरुद्राः सुरासुराः ॥ समयोरगगन्धर्वाः संग्रामं द्रष्टुमाययुः ॥२॥ श्रुतशर्मबले चक्रव्यूहं दामोदरो व्यधात्। पद्मव्यूहं प्रभासश्च सूर्यप्रभबलेऽकरोत् ॥३॥ ततः प्रवृत्ते युद्धे तयोरुभयसैन्ययोः। तूर्यैः सुभटनादैश्च बधिरीकृतदिस्तटम् ॥४॥ सम्यक्छस्त्रहताः शूरा भिन्दन्ति मम मण्डलम्। इतीव धरजाक्रान्तच्छन्नो भानुरभूद् भिया ॥५॥ दामोदरकृतं चक्रव्यूहमन्थेन दुर्भिदम्। भित्त्वा प्रभासः प्राविशदथ सूर्यप्रभाज्ञया ॥६॥ स च दामोदरो व्यूहच्छिद्रमप्यावृणोत्स्वयम् ॥ प्रभासो ययधे तं च तत्रैकरथ एव सः ॥७॥ प्रविष्टमेकं तं च दृष्ट्वा सूर्यप्रभोऽथ सः। पश्चात्पक्ष्बदधोतस्य विससर्ज महारथान् ॥८॥