कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 415, कुल 1079 में से
संदर्भ में पढ़ें१८२ कथासरित्सागर स प्रेतवाहनः सिंहबलः कपिलकोऽपि च। चित्रापीडस्ततो विद्याधरन्द्रोऽथ जगज्ज्वरः ॥११३॥ ततः कान्तापतिः शूरः सुवर्णश्च महाबलः। द्वौ च कामपनक्रोधपती विद्याध्रेश्वरौ ॥११४॥ मरुदेवस्ततो राजा विचित्रापीड एव च। राजपुत्रधृढानीकेनैते दश निपातिताः ॥११५॥ एवं हतेषु वीरेषु दृष्ट्वा विद्याधरक्षयम्। श्रुतशर्मा दृढानीकमभ्यधावत्स्वयं क्रुधा ॥११६॥ ततस्तयोरा दिनन्तं सैन्यक्षयकरं महत्। आश्चर्यमपि देवानां तावद्युद्धमभूद्द्वयोः ॥११७॥ शतानि यावदुत्थाय कबन्धानां समन्ततः। भूतानां चक्रुरारभ्य सन्ध्यान्नृत्तोत्सवागमे ॥११८॥ अह्नां क्षयेऽथ बहुसैन्यविनाशविन्ना विद्याधरा निहतबाधवतुंसिताश्च। मर्त्यासुराः प्रसभसम्भ्रममाशु जग्मुः संभूय युद्धमुभये स्वनिवेशनानि ॥११९॥ तत्कालमत्र च सुमेरुनिवेदितौ द्वौ विद्याधराधिपती रययूथपानाम्। अभ्येत्य तं परिहृतश्रुतशर्मपक्षौ सूर्यप्रभं जगदतुर्विहितप्रणामौ ॥१२०॥ आवां महायानसुमायसञ्ज्ञावुभावयं सिंहबलस्तृतीयः। महाश्मशानाधिपतित्वसिद्धा विद्याधरेन्द्रैरपरैरधृष्याः ॥१२१॥ तेषां श्मशानान्तरसुस्थितानामस्माकमागान्निकटं कदाचित्। सदा प्रसन्ना करभाननाख्या सद्योगिनी दिव्यमहाप्रभावा ॥१२२॥ कुत्र स्थिता स्थ भव किं च तत्र दृष्टं भवत्या भगवत्यपूर्वम्। सास्माभिरित्थं प्रणिपत्य पृष्टा वृत्तान्तमेवं वदति स्म देव ॥१२३॥ करभाननायोगिनीकथा द्रष्टुं प्रभुं स्वं सह योगिनीभिर्देवं महाकालमहं गताऽसम्। व्यजिज्ञपत्तत्र च मत्समक्षमागत्य वेतालपतिस्तमेकः ॥१२४॥ अस्मन्महासैन्यपतेस्तनूजां विद्याधरैर्निहतस्य देव। पश्याग्निकास्यस्य हरत्यकाण्डे तेजःप्रभो नाम महार्घरूपाम् ॥१२५॥