भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 423, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 423

१८८ कथासरित्सागर नेदं रक्षाविनुतं तद्धस्त्यायुस्सत्रपावहम् । मित्रगोष्ठी रङ्ग्येषा स्ववैदग्ध्यप्रदर्शिनी ॥१४॥ न चाहं भवतो राजा त्वं मे मित्रं निमन्त्रणम् । तन्नाद्य भोक्ष्ये भावत्कमबुद्ध्वा नृत्तकौतुकम् ॥१५॥ इति बद्धग्रहे राज्ञि स विप्रोऽङ्गीचकार तत् । कथं हि रुद्ध्यते भृत्यैर्गेहिकस्य प्रभोर्वचः ॥१६॥ ततः स गुणशर्मात्र ननर्त्ताङ्गैर्यथा तथा। राजा राज्ञी च चित्तेन तौ द्वौ ननृततुर्यथा ॥१७॥ तदन्ते च ददौ राजा वाद्यनायास्य वल्लकीम् । तस्यां च सारणामथ दददेवात्रवीन्नृपम् ॥१८॥ देवाप्रशस्ता वीजेयं तदन्या दीयतां मम । अस्यास्तन्त्र्यां यदेतस्यां शववालो विधेऽन्तरे ॥१९॥ नाहं ह्येतद्विजानामि तन्त्रीभागुरलक्षणे । इत्युक्त्वा गुणशर्म्माङ्गातां विपञ्चीं मुमोच सः ॥२०॥ ततः स छिन्त्वा तन्त्रीं तां यावद्बुद्ध्वेक्ष्य भूपतिः । वीक्षते निरगात्तावदन्तस्तत्पृशमंतः शुनः ॥२१॥ ततः सर्व्वज्ञतां तस्य प्रशंसन् सोऽतिविस्मितः । वीणामानाययामास महासेनन्नृपोज्झराम् ॥२२॥ तां स वादितवान्गायन्गुणशर्म्मा त्रिमागंराम् । गङ्गामिवौघसुभगां कर्णपावननिःस्वनाम् ॥२३॥ ततद्विस्मीयमाणाय राज्ञे तस्मै सजानये । दर्शयामास शस्त्रास्त्रविद्या अपि स सत्क्रमात् ॥२४॥ अथावोचत्स राजा तं नियुद्धं यदि वेत्सि तत् । एकं मे बन्धकरणं शून्यहस्तः प्रदर्शय ॥२५॥ गृहाण देव शस्त्राणि मयि प्रहर च क्रमात् । यावत्ते दर्शयामीति स विप्रः प्रत्युवाच तम् ॥२६॥ ततः स राजा खङ्गादि यद्यदायुधमग्रहीत् । तत्तत्प्रहरतस्तस्य गुणशर्माविहेलया ॥२७॥ तेनैव बन्धकरणेनापहृत्यापहृत्य सः । अयच्छद्राज्ञो हस्तं च गात्रं चाप्यक्षतो मुहुः ॥२८॥