भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 429, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 429

श्लाघ्यश्चाकृतपापस्य मम मृत्युरगर्हितः। न पुनः कृतपापस्य गर्हितं राजशासनम्॥५९॥ एतच्छ्रुत्वापि सा राज्ञी पुनरेवमुवाच तम्। आत्मनो मम च द्रोहं मा कृथाः शृणु वच्मि ते॥६०॥ नातिक्रामति राजायामशक्यमपि मद्वचः। तदस्य कृत्वा विज्ञप्तिं विषयान्दापयामि ते॥६१॥ कारयामि च सामन्तान्सर्वांस्तवनुयायिनः। तेन सम्पत्स्यसे राजा स्वमेवेह गुणोज्ज्वलः॥६२॥ ततस्ते किं भयं कस्त्वां कथं परिभविष्यति। तन्मां भजस्व निःशङ्कमन्यथा न भविष्यसि॥६३॥ इति तां ब्रुवतीं मत्वा सानुबन्धां नृपाङ्गनाम्। गुणशर्माब्रवीद्युक्त्या तत्क्षणं स व्यपोहितुम्॥६४॥ यदि तेऽत्यन्तनिर्वन्धस्तत्करिष्ये वचस्तव। प्रतिषेधमयाद्देवि सहसा तु न युज्यते॥६५॥ सहस्व दिवसान्कांश्चित्सत्यं जानीहि मद्वचः। सर्वनाशफलेनानार्थेस्तवैतद्विरोधेन को मम॥६६॥ इत्याशया तां सन्तोष्य प्रतिपन्नवचास्तया। गुणशर्मा स निर्गत्य ययावुच्छ्वसितस्ततः॥६७॥ ततो दिनेषु गच्छत्सु स महासेनभूपतिः। गत्वैव वेष्टयामास कोट्टस्थं सोमकेश्वरम्॥६८॥ तत्र प्राप्तं विदित्वा च गौडनाथः स भूपतिः। एत्य विक्रमशक्तिस्तं महासेनमवेष्टयत्॥६९॥ ततः स गुणशर्माणं महासेननृपोऽब्रवीत्। एकं रुद्ध्वा स्थिताः सन्तो रुद्धा स्मोऽन्येन शत्रुना॥७०॥ तदिदानीमपर्याप्ताः कथं युध्यामहे द्वयोः। अयुग्मे रुद्धके वीर स्थास्यामश्च कियच्चिरम्॥७१॥ तदस्मिन्त्सङ्कटेऽस्माभिः किं कार्यमिति तं सः। पृष्टः पार्श्वस्थितो राज्ञा गुणशर्माभ्यभाषत॥७२॥ धीरो भव करिष्यामि देवोपायं तथाविधम्। येनास्माभिस्तरिष्यामः सङ्कटादपि कार्यतः॥७३॥