भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 435, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 435

तं दृष्ट्वा तत्र सूदस्तमाप्तो राजानमभ्यधात्। महं से साधयाम्यत्सत्कार्यं मार्गक्षय कृथाः॥१०४॥ इत्युक्त्वा बन्धयित्वा च स दूतं गुणशर्मणः। सूदो मन्त्रस्रुतिं , रक्षन्निहागाद्विषदायकः॥१०५॥ तन्मध्ये च पलाय्यैव सतो निर्गत्य बन्धनात्। गुणशर्म्मान्तिक दूतस्तदीयः सोऽप्युपागमत्॥१०६॥ तेनाधिगतवृत्तान्तेनोक्त्या सर्वं स दर्शितः। सूपो महानसेजस्माकं प्रविष्टो गुणशर्मणे॥१०७॥ ततो ज्ञात्वा स धूर्त्तेन सूपकृद् ग्राह्यत्युना। विषदानोद्यतस्तेन शुम्यमावेद्य भातिष्ठत्॥१०८॥ अथ तस्येह सूदस्य मातुभार्ये तथानुजाम्। वार्त्तामन्वेष्टुमायातान्गुणशर्मा स बुद्धिमान्॥१०९॥ बुद्ध्या तेन हृता तस्य भार्या माता च सोऽस्य तु। भ्राता पलायितो दैवात्प्रविष्टन्मम मन्दिरम्॥११०॥ तेन तद्वर्ण्यते यावत्सर्वं मे शरणार्थिना। गुणशर्मा स मदासगृहं तावत्प्रविष्टवान्॥१११॥ तं दृष्ट्वा मां च श्रुत्वा भ्राता सूदस्य तस्य सः। भयान्निर्गम्य मत्पाश्र्वाभि जागे क्व पलायितः॥११२॥ गुणशर्मापि तं दृष्ट्वा स्वभृत्यैः पूर्व्वदर्शितम्। संभूत्सद्यः सवेमक्ष्यो विमृशन्निव किञ्चन॥११३॥ गुणशर्मन्किमर्थैवंमन्यादृक्ष इवेक्ष्यसे। इत्यपृच्छमहं तं च जिज्ञासुविजने ततः॥११४॥ सोऽप्य स्वीकर्त्तुकामो मामाह स्मोद्भेदशङ्कितः। देवि त्वदनुरागाग्निदग्धोऽहं तद्भजस्व माम्॥११५॥ धन्यथाहं न जीवेयं देहि मे प्राणदक्षिणाम्। इत्युक्त्वा वासक शून्ये पादयोरपतन्म मे॥११६॥ ततोऽहं पादमाक्षिप्य सम्भ्रमादायदुत्थिता। साम्टूत्याय तनाहमबलामिलिङ्गिता बलात्॥११७॥ सत्तार्ण च प्रविष्टा मे शती पल्लविकान्तिकम्। तां दृष्ट्वैव स निष्क्रम्य गुणशर्मा भयाद् गतः॥११८॥