कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 443, कुल 1079 में से
संदर्भ में पढ़ेंतत्र तस्याविरासीच्च कार्तस्वरविमानगा। वरकन्यापरिवृता दिव्यकन्या स्वलङ्कृता॥१६४॥ सा तं मधुरया वाचा बभाषे मस्करिग्रहम्। विद्युन्मालेत्यभिधा यक्षी यक्ष्यश्चापरा इमाः॥१६५॥ तदितो मत्परिवाराद् गृहाणैकां यथारुचि। एतावदेव सिद्धं ते मन्त्रसाधनयानया॥१६६॥ त्वया हि नैव विज्ञातं पूर्णं मन्मन्त्रसाधनम्। अतोऽहं ते न सिद्धैव मान्थ क्लेशं वृथा कृथाः॥१६७॥ एवमुक्तस्तया यक्ष्या परिव्राडनुमान्य सः। यक्षिणीमग्रहीदेकां तस्मात्तत्परिवारात· ॥१६८॥ ततश्च विद्युन्माला सा तिरोभूतां च यक्षिणीम्। आदित्यशर्मा पप्रच्छ सिद्धां प्रव्राजकस्य या॥१६९॥ अप्यस्ति विद्युन्मालातो यक्षिणी काचिदुत्तमा। तन्मुखा यक्षिणी सा तं प्रत्युवाचास्ति सुन्दर॥१७०॥ विद्युन्माला चन्द्रलेखा तृतीया च सुलोचना। उत्तमा यक्षिणीष्वेता एतास्वपि सुलोचना॥१७१॥ इत्युक्त्वा सा यथाकालमागन्तुं यक्षिणी ययौ। आदित्यशर्मणा साकमगात्प्रव्राट् च तद्गृहम्॥१७२॥ तत्र प्रतिदिनं तस्मै प्रीता प्रव्राजकाय सा। प्रायच्छद्यक्षिणी भोगानिष्टान्कालोपगामिनी॥१७३॥ एकदादित्यशर्मा च प्रव्राजकमुखेन ताम्। सुलोचनामन्त्रविधिं को जानातीति पृष्टवान्॥१७४॥ सापि तन्मुख एवास्मन्मक्षिप्येव किलाब्रवीत्। अस्ति तुम्बवनं नाम स्थानं दक्षिणदिङ्मुखे॥१७५॥ तत्रास्ति विष्णुगुप्ताख्यो वणातीरकृतास्पदः। प्रव्राजको भदन्तान्यः स सङ्केत्ति सविस्तरम्॥१७६॥ श्रुत्वैतद्यक्षिणीवाक्यात्तं देशं सोत्सुको ययौ। आदित्यशर्मानुगतः प्रीत्या प्रव्राजकेन सः॥१७७॥ तत्रान्विष्य यथावृत्तं भदन्तमभिगम्य च। परिचर्यापरो भक्त्या त्रीणि वर्षाण्यसेवत॥१७८॥