कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 455, कुल 1079 में से
संदर्भ में पढ़ें४२० कथासरित्सागर इति पुष्यनिधोपाख्यानतो मूढबुद्धिः। सपदि विपदमाप प्राङ्महासेनभूपः। इति च स गुणशर्मा धैर्यमेकं सहायं। कृतमतिरवगम्य प्राप्तवानृद्धिमग्र्याम् ॥२५१॥ एव कथां स्वसचिवस्य मुखादुदारां। सूर्यप्रभो निशि निशम्य स वीतभीतेः। वीरो महासमरसागरमुत्तितीर्षु- रुत्साहमभ्यधिकमाप शनैश्च निद्रये ॥२५२॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके षष्ठस्तरङ्गः।
सप्तमस्तरङ्गः सूर्यप्रभचरितम्: अन्तिमं युद्धम् ततः सूर्यप्रभः प्रातरुत्थाय सचिवैः सह। दानवादिवलैः सर्वैर्युतो युद्धभुवं ययौ ॥१॥ आययो श्रुतशर्मा च विद्याधरबलैर्वृतः। आजग्मुश्च पुनर्द्रष्टुं सर्वे देवासुरादयः ॥२॥ सैन्ये द्वे अपि ते व्यूहावर्धचन्द्रौ च चक्रतुः। प्रावर्त्तत ततो युद्धं बलयोरुभयोस्तयोः ॥३॥ ससाध्वसमभिधावन्तो निकृन्तन्तः परस्परम्। पत्रास्ता प्रजविनो युध्यन्ते स्म शरा अपि ॥४॥ कोशानानप्रनिर्यताः सुदीर्घाः पीतशोणिताः। लोलाः खड्गलसा रेजुः कृतान्तरसना इव ॥५॥ शूरोत्कृष्टक्रमाम्भोजसम्पतच्चञ्चत्खड्गहतिः । राजहंसक्षयायासीत्तदाहवमहासुरः ॥६॥ उत्प्लद्भिः पतद्भिश्च निर्लूनैः शूरमूर्धभिः। कृतान्तकन्दुकक्रीडासभिमा समिवाबभौ ॥७॥ क्षतजासेकनिर्धूतधूलिध्मान्ते रणाजिरे। महारथानामभवद्वन्द्वायुद्धान्यमर्षिणाम् ॥८॥