कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 459, कुल 1079 में से
संदर्भ में पढ़ें४२४ कथासरित्सागर प्रियङ्करश्च विरथां विरथं रथनाशतः। एकखड्गप्रहारेण करोति स्माश्रर्मं द्विधा ॥२४॥ छिन्ने धनुषि निक्षिप्तनकुशेन हृदि क्षतम्। हतवान्सर्वदमनो हेलयातिबलं रणे ॥२५॥ ततो धुरन्धरं तं च स कुञ्जरकुमारकः। अस्त्रप्रत्यस्त्रयुद्धेन चकार विरथं मुहुः ॥२६॥ मुहुर्विक्रमशक्तिश्च तस्मै रथमडौकयत्। ररक्ष सङ्कटे च षाप्यस्त्रैरस्त्राणि वारयन् ॥२७॥ स कुञ्जरकुमारोऽथ धावित्वा महतीं शिलाम्। क्रुद्धो विक्रमशक्तेर्दाक् चिक्षेप स्यन्दनोपरि ॥२८॥ गते विक्रमशक्तौ च चूर्णितस्यन्दनं ततः। तयैव शिलया तं स धुरन्धरमचूर्णयत् ॥२९॥ सूर्यप्रभ प्रयुक्तोऽपि सहात्र श्रुतशर्मणा। विरोचनवचक्रोग्राञ्जघानैकैकुषा दसम् ॥३०॥ तत्क्रोधावश्विनौ देवौ युद्धायापतितौ शरैः। सुनीथः प्रतिजग्राह तेषां युद्धमभून्महत् ॥३१॥ स्थिरबुद्धिश्च संग्रामे शक्त्या हत्वा पराक्रमम्। वसुभिस्तद्वधक्रुद्धैः सहाष्टाभिरयुध्यत ॥३२॥ विरथीकृतमात्रं च प्रभासो वीक्ष्य मर्दनम्। वामोदररणासक्तोऽप्येकनेत्रेणवधीत् ॥३३॥ प्रकम्पनोऽस्त्रयुद्धेन हत्वा तेजःप्रभं युधि। युयुधे तद्वधक्रुद्धेनाग्निना सह साप्रतम् ॥३४॥ धूमकेतोश्च समरे यमदंष्ट्रं निजघ्नुषः। कुपितेन यमेनामूत्सह् युद्धं सुदारुणम् ॥३५॥ चूर्णयित्वा स शिलया सिंहदंष्ट्रः सुरोपमम्। समं निर्ऋतिना युद्धे तद्बषामर्षशालिना ॥३६॥ कालचक्रोऽपि चक्रेण चक्रे वायुबलं द्विधा। अयुध्यत च तत्कोपाञ्ज्वलन्ता वायुना सह ॥३७॥ स्पैर्नागाद्विवृक्षाणां महामायो विमोहदम्। कुबेरदत्तं हतवांस्तार्क्ष्यबन्ध्यामिरुद्ययत् ॥३८॥