भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 463, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 463

४२८ कथासरित्सागर

इति यावत्सुरपति ब्रवीति कमलासनः। तावत्प्रभासः प्रामुञ्चदस्त्रं पाशुपतं महत् ॥५४॥ तद्दृष्ट्वा सर्वसंहारि रौद्रमस्त्रं विजृम्भितम्। प्रमुक्तं हरिणा चक्रं सुतस्नेहात्सुदर्शनम् ॥५५॥ ततः सम्पूयोराशीभूय दिव्यास्त्रयोस्तयोः। अकाण्डविश्वसंहारसंभ्रान्तमुभयत्रयम् ॥५६॥ अस्त्रं स्वं संहरैतत्वं यावत्स्वं संहराम्यहम्। इत्युक्तो हरिणा सोऽथ प्रभासः प्रत्युवाच तम् ॥५७॥ मुक्तमस्त्रं वृथा न स्यात्तन्नयातु पराङ्मुखः। दामोदरो रणं हित्वा ततोऽस्त्रं संहराम्यहम् ॥५८॥ इत्युक्ते तेन भगवानवादीत्तर्हि मानय। चक्रं त्वमपि मे मा भूद्वैफल्यमुभयोरपि ॥५९॥ एतच्छौरेर्वचः श्रुत्वा प्रभासः प्राह कालवित्। एवमस्तु रथं हन्तु मम चक्रमिदं तव ॥६०॥ तथेति हरिणा दामोदरे व्याव्र्त्तिते रणात्। प्रभासः संजहारास्त्रं चक्रं चास्यापतद्रथे ॥६१॥ आदह्यान्त्यं रथं सोऽथ ययौ सूर्यप्रभान्तिकम्। दामोदरोऽपि स प्रायाच्छतपर्वाक्तिकं ततः ॥६२॥ तावच्च वासवाघासदृप्तस्य श्रुतशर्मणः। सूर्यप्रभस्य च द्वन्द्वयुद्धं शुक्लं परामगात् ॥६३॥ श्रुतशर्मा प्रयुक्त स्म यद्यन्त्स्त्रं प्रयत्नतः। प्रत्यस्त्रैः प्रतिहन्ति स्म तत्तत्सूर्यप्रभः क्षणात् ॥६४॥ माया या या च तनात्र प्रयुक्ता श्रुतशर्मणा। सूर्यप्रभण ता मास्य निहताः प्रतिमायया ॥६५॥ ततो ब्रम्हास्त्रममर्षच्छ्रुताशर्माशिरोगतम्। सूर्यप्रमोऽपि प्रामुञ्चदस्त्रं पाशुपतं कृती ॥६६॥ तेन रौद्रमहास्त्रेण ब्रह्मास्त्रं प्रतिहत्य तत्। यावत्स दुद्रुवेण श्रुतशर्माभिभूयत ॥६७॥ नागेन्द्रमृगिभिश्चैषाञ्चे गमनाः। यथाशनि प्रयुक्तानि परमारत्राण्यमर्षिभिः ॥६८॥