भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 465, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 465

४२८ कथासरित्सागर इति यावत्सुरपतिं ब्रवीति कमलासनः। तावत्प्रभासः प्रामुञ्चदस्त्रं पाशुपतं महत् ॥५४॥ तद्दृष्ट्वा सर्वसंहारि रौद्रमस्त्रं विजृम्भितम्। प्रमुक्तं हरिणा चक्रं सुतस्नेहात्सुदर्शनम् ॥५५॥ ततः सरूपयोरासीद्दिव्यास्त्रयोस्तयोः। अकाण्डविषमसंहारसंभ्रान्तभुवनत्रयम् ॥५६॥ अस्त्रं स्वं संहरैतस्त्वं यावत्स्वं संहराम्यहम्। इत्युक्तो हरिणा सोऽथ प्रभासः प्रत्युवाच तम् ॥५७॥ मुक्तमस्त्रं वृथा न स्यात्तत्प्रयातु पराङ्मुखः। दामोदरो रणं हित्वा ततोऽस्त्रं संहराम्यहम् ॥५८॥ इत्युक्ते तेन भगवानवादीत्तर्हि मानय। चक्रं त्वमपि मे मा भूद्वैफल्यमुभयोरपि ॥५९॥ एतच्छौरेर्वचः श्रुत्वा प्रभासः प्राह कालवित्। एवमस्तु रथं हन्तु मम चक्रमिदं तव ॥६०॥ तथेति हरिणा दामोदरे व्याव्रतिते रणात्। प्रभासः संजहारास्त्रं चक्रं चास्यापतद्रथे ॥६१॥ आरुह्यान्यं रथं सोऽथ ययौ सूर्यप्रभान्तिकम्। दामोदरोऽपि स प्रायाच्छ्रुतशर्म्मान्तिकं ततः ॥६२॥ तावच्च वासवांशात्वदृप्तस्य श्रुतशर्मणः। सूर्यप्रभस्य च द्वन्द्वयुद्धं काष्ठां परामगात् ॥६३॥ श्रुतशर्मा प्रयुङ्क्ते स्म यद्यदस्त्रं प्रयत्नतः। प्रत्यस्त्रं प्रतिहन्ति स्म तत्तत्सूर्यप्रभः क्षणात् ॥६४॥ माया या या च तेनात्र प्रयुक्ता श्रुतशर्मणा। सूर्यप्रभेण सा मास्य निहता प्रतिमायया ॥६५॥ ततो ब्रह्मास्त्रममुञ्चच्छ्रुतशर्मातिरोषतः। सूर्यप्रभाऽपि प्रामुञ्चदस्त्रं पाशुपतं हृदी ॥६६॥ तेन रौद्रमहास्त्रेण ब्रह्मास्त्रं प्रतिहत्य तत्। यापरन् दुष्प्रभावेण श्रुतशर्माभिभूयत ॥६७॥ तावदिन्द्रप्रभृतिभिर्देवासुर... गमनुतः। वज्रादीनि प्रयुक्तानि परमास्त्राण्यमर्षिभिः ॥६८॥