भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 467, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 467

सतु पाशुपतं तानि जित्वा सर्वायुधान्यपि। प्रज्वलन् सुतरामस्त्रं श्रुतशर्मजिघांसया ॥६९॥ ततः सूर्यप्रभं स्तुत्वा महास्त्रं तद्व्यविक्षिपत्। मा वधीः श्रुतशर्माणं बध्द्वा त्वं तं समर्पय ॥७०॥ ततः प्रसह्य निश्चेष्टः ससम्भ्रममवत्सुरैः। तज्जिगीषावधाच्चान्ये प्रेक्षकैरसुरैरपि ॥७१॥ तत्राथ वीरभद्राख्यः शम्भुना प्रेरितो गणः। आगत्यैव तदावेशमिन्द्रादिभ्योऽब्रवीदिदम् ॥७२॥ यूयं प्रेक्षितुमायातास्तद्रोधुं वः क्रमोऽत्र कः। मर्यादाभङ्गुतानाञ्चान्यदपि स्यादसञ्जसम् ॥७३॥ एतच्छ्रुत्वाब्रुवन्देवा हन्यन्ते न हताश्च नः। सर्वेषामत्र तनयास्तन्न युध्यामहे कथम् ॥७४॥ दुस्त्यजो हि सुतस्नेहस्तद्वशस्य प्रतिक्रिया। तन्निहन्तृषु कर्तव्या यथाशक्त्यत्र कोऽक्रमः ॥७५॥ इत्युक्तवत्सु देवेषु वीरभद्रे ततो गते। सुराणामसुराणां च प्रावर्त्तत महारथः ॥७६॥ सुनीथः सममश्विभ्यां प्रज्ञाचक्षुश्च सहेतुना। स्थिरबुद्धिश्च वसुभिः कालभद्रश्च वायुना ॥७७॥ प्रकम्प्योऽग्निना सिंहदंष्ट्रो निर्ऋतिना तथा। वरुणेन प्रधमनो धूमकेतुर्यमेन च ॥७८॥ महामायः स च तथा धनाधिपतिना सह। अयुध्यतास्त्रप्रत्यस्त्रैरन्योन्यैश्च समं सुरैः ॥७९॥ पर्यन्ते परमास्त्रं च यो यो यद्यत्सुरोऽक्षिपत्। तस्य तन्म हरस्तत्तदुङ्कारेण व्यनाशयत् ॥८०॥ धनदस्तूद्यतगदः साम्ना शर्वेण वारितः। भग्नास्त्राश्च सुरास्ते ते परित्यज्याहवं ययुः ॥८१॥ ततः सूर्यप्रभं शक्रः स्वयं क्रोधादयोधयत्। सरोषममुचत्तस्मिंस्तानि तान्यायुधानि च ॥८२॥ सूर्यप्रभश्च निर्धूय तदस्त्राण्यवहेलया। मार्जारिष्टनाराचैस्तेनेन्द्रमभ्यताडयत् ॥८३॥