कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 469, कुल 1079 में से
संदर्भ में पढ़ेंततः क्रुद्धः स कुलिशं जग्राह च सुराधिपः। हुङ्कारं चाकरोद्बुद्धः कुलिशं च ननाश तत् ॥८४॥ ततः पराङ्मुखे याते शक्रे नारायणः स्वयं । प्रभासं योधयामास क्रोधात्कोटीमुखैः शरैः ॥८५॥ अस्त्राण्यन्यानि चाप्यस्त्रैर्निष्कम्यो युयुधे समम्। हताश्वो विरथीभूतोऽप्यारुह्याग्यं रथं च सः ॥८६॥ तेन दैत्यारिणा सार्धं निर्विशेषमयुध्यत। ततः प्रकुपितो देवो ज्वलच्चक्रं मुमोच सः ॥८७॥ प्रभासोऽप्यभिमन्त्र्यैव दिव्यं खड्गं प्रमुक्तवान्। तयोरायुधयोर्युध्यमानयोर्वीक्ष्य धन्वराट् ॥८८॥ हीयमानं रणे खड्गं हुङ्कारं कृतवान्हरः। तेन ते खड्गचक्रे द्वे अन्तर्धानमुपेयतुः ॥८९॥ ततो ननन्दुरसुरा विषीदन्ति स्म चामराः। सूर्यप्रभे लब्धजये बद्धे च श्रुतशर्मणि ॥९०॥ संस्तुत्याराभयामासुरथ देवा वृषध्वजम्। ततस्तुष्टः सुरानिदमादिवेशाम्बिकापतिः ॥९१॥ सूर्यप्रभप्रतिज्ञातं वर्जयित्वार्थ्यतां वरः। दैव यत्ते प्रतिज्ञातं कः शक्तः कर्तुमन्यथा ॥९२॥ किं त्वस्माभिः प्रतिज्ञातं यदस्य श्रुतशर्मणः। सत्यं तदप्यस्तु विभो मा भूद्वक्षक्षयश्च नः ॥९३॥ इत्युक्त्वा विरतान्देवा भगवानसमादिशत्। संधौ कृते मवस्येतत्सन्धिधैवमिहास्तु वः ॥९४॥ सूर्यप्रभं प्रणमतु श्रुतशर्मा सहानुगः। ततस्तथा विधास्यामो यथोभयहितं भवेत् ॥९५॥ इतीदवरवचो देवाः प्रतिपद्य समेति च। सूर्यप्रभस्य विदधुः श्रुतशर्माणमानतम् ॥९६॥ ततस्तयोमिथस्त्यक्तवैरयोः कृष्ठमन्वयोः। सन्धिं देवासुराश्चक्रुः शान्तवैराः परस्परम् ॥९७॥ अथ शृण्वत्सु निर्जितेष्वसुरेषु सुरेषु च। उवाच भगवाञ्छम्भुः सूर्यप्रभमिदं वचः ॥९८॥