भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 471, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 471

कुरु दक्षिणवेद्यर्धे छत्रवासित्वमात्मनः। उत्तरस्मिंस्तु वेद्यर्धे देहि तच्छ्रुतशर्मणे ॥९९॥ प्राप्तव्यमचिरात्पुत्र त्वया हीदृक्चतुर्गुणम्। साम्राज्यं किन्नरादीनामशेषाणां द्युचारिणाम् ॥१००॥ तस्मिन्प्राप्ते च दद्यास्त्वं वेद्यर्धमपि दक्षिणम्। तत्कुञ्जरकुमाराय सविशेषपदे स्थितः ॥१०१॥ ये चात्र निहता वीराः समित्युभयपक्षयोः। उत्तिष्ठन्त्वक्षतैरङ्गैर्जीवन्तः सर्व एव ते ॥१०२॥ इत्युक्त्वान्तर्दधे शम्भुः सर्वे चोत्तस्थुरक्षताः। सुप्तप्रबुद्धा इव ते येऽत्राभूवरणे हताः ॥१०३॥ अथ सूर्यप्रभो मूर्ध्नि धृतशाम्भवशासनः। गत्वा विविक्तं विस्तीर्णं भूमिभागमरिन्दमः ॥१०४॥ उपविष्टो महास्थानं श्रुतशर्माणमागतम्। निजसिंहासनार्धे तमुपावेशितवांत्स्वयम् ॥१०५॥ तद्वयस्याः प्रभासाद्या वयस्याः श्रुतशर्मणः। दामोदराद्याश्च तयोः पार्श्वयोः समुपाविशन् ॥१०६॥ उपाविशत्सुनीथश्च मयश्चान्ये च दानवाः। आसनेषु यथार्हेषु तथा विद्याधरेश्वराः ॥१०७॥ ततस्तत्राययुः सप्तपातालपीठयोत्थिताः। प्रह्लादप्रमुखा दैत्यदानवेन्द्राः प्रहर्षतः ॥१०८॥ शक्रश्च लोकपालाविमुतो गुरुपुरस्सरः। विद्याधरः सुमेरुश्च स सुवासकुमारकः ॥१०९॥ दनुप्रभृतयः सर्वाश्चाययुः कश्यपाङ्गनाः। भूतासनविमानेन भार्याः सूर्यप्रभस्य च ॥११०॥ सर्वेष्वेपु दृष्टान्योन्यप्रीत्याचारोपवेशिषु। सिद्धिनमि सखी धन्वास्तद्वाक्यमेवमम्यधात् ॥१११॥ भो भो सुरासुरा देवी दनुर्मुष्मन्निरीक्ष्यसौ। अस्मिन्प्रीतिसमाजे यत्सीमन्तस्य सुखं च नः ॥११२॥ तद्भूतं यदि युष्माभिरनुभूतं बनाधन। तदयोयं न कस्सभ्यो विरोधो दुरादादणः ॥११३॥