भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 477, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 477

४४० कथासरित्सागर स तानवादीद्व्रजतानादिष्टं वस्त्रिशूलिना। गृहे सुमेरोर्भोक्तव्यमेष ह्यात्मपरिग्रहः ॥१४४॥ एतदङ्गेषु भुक्तेषु तृप्तिः स्याच्छाश्वती च वः। इति तन्वियुक्ताञ्छ्रुत्वा सर्वे तत्प्रतिपेदिरे ॥१४५॥ ततोऽत्राजग्मुरमिताः शङ्करप्रहिता गणाः। विनायकमहाकालवीरभद्राद्यधिष्ठिताः ॥१४६॥ ते च भोजनसज्जां तां वेदिं कृत्वा यथाक्रमम्। तानुप्रावेशयन्देवद्युचरासुरमानुषान् ॥१४७॥ उपाहरन्त तेभ्यश्च विद्याकल्पान्सुमेरुणा। आहाराञ्छङ्करादिष्टकामधेनूद्भवांस्तथा ॥१४८॥ एकैकस्य यथार्हं च तत्स्फुरिच्छाविधायिनः। वीरभद्रमहाकालभृङ्गिप्रभृतयः सुराः ॥१४९॥ पदे पदे च सन्तोषमिलद्वधूपरचारणम्। तथा सङ्गीतकमभूद्दिव्यस्त्रीनृत्यसुन्दरम् ॥१५०॥ आहारान्ते च सर्वेषां तेषां नन्दीश्वरादयः। ददुर्दिव्यानि माल्यानि वस्त्राण्याभरणानि च ॥१५१॥ एवं सम्मान्य देवादीन्नन्दिप्रभृतयोऽखिलाः। गणेश्वरा गणैः सर्वैः सह जग्मुर्यथागतम् ॥१५२॥ ततो देवासुरा सर्वे सार्धं तन्मातरो ययुः। श्रुतशर्मादयस्ते चाप्यामन्त्र्य स्वं स्वमास्पदम् ॥१५३॥ सूर्यप्रभः सभार्यश्च सवयस्यवधूयुतः। विमानेन ययावाद्य तत्सुमेस्तपोवनम् ॥१५४॥ प्रेषयामास हर्षं च स्ववयस्य महीभृताम्। रत्नप्रभस्य च भ्रातुराख्यातुमुदयं निजम् ॥१५५॥ दिनान्ते च स सद्रत्नपर्यङ्के साधुनिर्मितम्। कामचूडामणेर्बध्वा वासवेश्म विवेश तत् ॥१५६॥ तत्रैतां च वनाश्लेषवदानच्छत्रसञ्ज्नने। त्याजयित्वा शनैर्लज्जां नवोढासुलभां क्रमात् ॥१५७॥ अनिर्वाच्यं मवं मुग्धविदग्धमधुरं रतम्। अनास्वादितमन्यान्यं सिषेवे स तया सह॥१५८॥