कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 539, कुल 1079 में से
संदर्भ में पढ़ें[Page Header] ५२ कथासरित्सागर
तच्छ्रुत्वा पृष्टनक्षत्रस्तेषां स गणकोत्तमः । गणयित्वा चिरं कालं राजानं तमभाषत ॥१४२॥ न चेत् कुप्यसि मे देव स्फुटं विज्ञापयामि तत् । अस्ति त्वद्दुहितुर्नेषामेकेनाप्यनुकूलता ॥१४३॥ न चेहास्ति विवाहोऽस्या एषा शापच्युतात्र यत् । विद्याधरी स शापोऽस्यास्त्रिभिर्मासैर्निवर्त्स्यति ॥१४४॥ तस्मान् मासत्रयं तावत् प्रतीक्षन्ताममी इह । नैषां स्वलोकं याता चेत्तत एतद् भविष्यति ॥१४५॥ एतन्मौहूर्तिकस्यास्य वचः सर्वेऽपि तत्र ते । श्रद्दधुस्तत्र चैवासन् वीरा मासत्रयावधि ॥१४६॥ गते मासत्रये राजा तान् वीरान् गणकं च सम् । स्वाग्रमानाययामास तामनङ्गरतिं च सः ॥१४७॥ दृष्ट्वा चाधिकसौन्दर्याम कस्मात् तां सुतां नृपः । बह्वर्षं गणकस्तां तु प्राप्तकालममन्यत ॥१४८॥ इदानीं ब्रूहि यद्युक्तं त हि मासास्त्रयो गताः । इति यावच्च तं राजा गणकं पृच्छति स्म सः ॥१४९॥ तावज्जातिं निजां स्मृत्वा सानङ्गरतिराननम् । आच्छाद्य स्वोत्तरीयेश मानुषीं तां तनुं जहाौ ॥१५०॥ एवमेषा स्थिता किंस्विदिति राजा स्वयं मुखम् । यावदुद्घाटयते तस्यास्तावत् सा ददृशे मृता ॥१५१॥ व्यामुक्त्तनेत्रभ्रमरा विवर्णवदनाम्बुजा । हप्तमञ्जुस्वना मुक्ता पद्मिनीव हिमाहता ॥१५२॥ ततः स सद्यस्तच्छोकवज्रपाताहतो भुवि । भूभृत् पपात निर्घोषः स्वपक्षच्छेदमुच्छ्रितः ॥१५३॥ राज्ञी पद्मवती सापि व्यामोहपतिता ययौ । भ्रष्टामरणपुष्पा क्ष्मामिभमग्नेव मञ्जरी ॥१५४॥ मुक्ताक्रन्दे परिजने तेषु वीरेषु दुःखिषु । सम्भ्रमांत क्षणाद्राजा जीववत्तमुवाच तम् ॥१५५॥
[Footnote] १ भू भृतः । राज्ञः पर्वतस्य च श्लेषेण वर्णनम् ।