कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 545, कुल 1079 में से
संदर्भ में पढ़ें५८ कथासरित्सागर खड्गहस्त समुत्पत्य परिभ्रम्य हिमालयम्। प्राप वीरपुरस्य त समरं खचरेश्वरम् ॥१८६॥ तेन युद्धजितेनात्र प्रदत्तां परिणीय सः। तामनङ्गप्रभां भेजे दिव्यां सम्भोगसम्पदम् ॥१८७॥ कञ्चित्काल स्थितश्चात्र श्वशुर समरं च सम्। जीवदत्तो जगादैव तां चानङ्गप्रभां प्रियाम् ॥१८८॥ मनुष्यलोकं गच्छावस्त प्रत्युत्कण्ठितोऽस्मि यत्। प्राणिनां हि निकृष्टापि जन्मभूमिः परा प्रिया ॥१८९॥ एतच्छ्रुत्वा वचस्तस्य श्वशुरः सोऽन्वमन्यत। सा स्वनङ्गप्रभा इच्छादनुमेने विजानती ॥१९०॥ अथाङ्गोपात्तया साकमनङ्गप्रभया तया। जीवदत्त स नभसा मर्त्यलोकमवातरत् ॥१९१॥ दृष्ट्वात्र रम्यमेकं च पर्वतं सा जगाद तम्। श्रान्तानङ्गप्रभा क्षिप्रमिह विश्राम्यतामिति ॥१९२॥ ततस्तथेति तत्रैव सोऽवतीर्य तया सह। चकाराहारपानादि तत्तद्विद्याप्रभावतः ॥१९३॥ ततोऽनङ्गप्रभां जीवदत्तोऽसौ विधिचोदितः। सामुवाच प्रिये किञ्चिन्मधुरं गीयतां त्वया ॥१९४॥ तच्छ्रुत्वा गातुमारभे सा भक्त्या धूर्जटे स्तुतिम्। तेन तद्गीतशब्देन सोऽथ निद्रामगावृक्षिजः ॥१९५॥ साश्वदाखेटकभ्रान्तो निर्झराम्भोऽभिलाषुकः। राजा हरिवरो नाम पथा तेन किलाययौ ॥१९६॥ स तेन गीतशब्देन श्रुतेन हरिणो यथा। आकृष्टोऽभ्यापतत्तत्र रथमुत्सृज्य केवलः ॥१९७॥ शकुने पूर्वमाख्यातलक्ष्मोऽपश्यत् स भूपतिः। तामनङ्गप्रभां सत्यामनङ्गस्य प्रभामिव ॥१९८॥ यदा तद्गीतरूपाभ्यां नीत तस्य विहस्तताम्¹। निर्बिभेद यथाकामं हृदय मदनः शरैः ॥१९९॥ १ विहस्ततां = विवशतां नीतं = प्राप्तम्।