भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 555, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 555

५१४ कथासरित्सागर सत्प्रभावेण जानामि भूतं भव्यं च भावि च। सा चानङ्गप्रभा नीता राज्ञा हरिवरेण तु॥२३०॥ सुप्ते त्वयि विधियोगात् तन्मार्गगामिना तदा। गीताकृष्टोपयातेन स्वनामपुरवासिना॥२३१॥ सा न शक्या न ते प्राप्तुं स हि राजा महाबलः। सा पुनस्तमपि त्यक्त्वा कुलटान्‍यत्र यास्यति॥२३२॥ खड्गं च देवी प्रादात्ते सत्प्राप्त्यै तद्विधाय सः। तस्यां हृतायां दिव्यत्वाद्भ्रष्टया एवान्तिकं गतः॥२३३॥ किं न वेत्स्येव तेऽनङ्गप्रभाशापोपवर्णने। स्वप्ने भावि यदादिष्टं तत्कथं विस्मृतं तव॥२३४॥ तदेष भवितव्योऽयं व्यामोहोस्ते वृथैव कः। पापानुबन्धं मुञ्चैनं भूयो भूयोऽतिदुःखदम्॥२३५॥ किं चाधुना तव तया पापयान्यानुरक्तया। मानुषीभूतया ज्ञातस्वद्रोहाद्भ्रष्टविद्यया॥२३६॥ इत्युक्तः स तया साध्व्या त्यक्तानङ्गप्रभास्पृहः। तज्जातखेदविरक्तात्मा जीवदत्तो जगाद ताम्॥२३७॥ शान्तस्त्वद्वचसा मोहः सत्येनाम्बामुना मम। कामं न श्रेयसे कस्य सङ्गमः पुण्यकर्मभिः॥२३८॥ पूर्वपापवशादेतद् समापतितं मम। तत्क्षालनाय यास्यामि तीर्थान्युज्झितमत्सरः॥२३९॥ को मेऽनङ्गप्रभाहर्तोर्वैरेणार्थः परे सह। जितक्रोधेन सर्वं हि जगदेतद्विजीयते॥२४०॥ इति यावत् स वक्त्यत्र तावत्तस्याः पतिर्गृहे। आययो प्रियदत्ताया धार्मिकोऽतिथिवात्सलः॥२४१॥ कृतातिथ्येन तेनाऽपि त्याजितो दुःखमत्र सः। विश्रम्य तीर्थयात्राय प्रायादापृच्छय ताबुभौ॥२४२॥ ततः श्रमण सर्वाणि पृथ्व्यां तीर्थानि सोऽभ्रमत्। विमोढानेककान्तारस्पृष्टो मूलफलाशनः॥२४३॥ भ्राम्यन्तीर्थेष्व तामेव स ययौ विन्ध्यवासिनीम्। तत्र तप स्तपस्तीव्रं निराहारः कुशास्तरे॥२४४॥