कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 557, कुल 1079 में से
संदर्भ में पढ़ेंतपस्तुष्टा च सा साक्षादुवाचैव तमम्बिका। उत्तिष्ठ तत्र यूयं हि चत्वारो मामका गणाः॥२४५॥ पञ्चचूलश्चतुर्वक्त्रमहोदरमुखास्तथा । त्वं चतुर्थश्च विकटवदनाख्यः क्रमोत्तमः ॥२४६॥ ते यूयं जातु गङ्गाया विहर्तुं पुलिनं गताः। तत्र स्नान्ती च युष्माभिर्दृष्टैका मुनिकन्यका ॥२४७॥ चापलेस्सि कपिञ्जटाख्यस्य मुनेः सुता। प्रार्थ्यते स्म च सर्वैः सा भवद्भिर्मदनातुरैः ॥२४८॥ कन्याहमनपेयातेति तयोक्ते ते त्रयोऽपरे। तूष्णीमासंस्त्वया सा तु हठाद्बाहावगृह्यत ॥२४९॥ क्रन्दति स्म च सा 'तात तात त्रायस्व मा' मिति। तच्छ्रुत्वा निकटस्थोऽत्र स क्रुद्धो मुनिरागमत् ॥२५ ॥ तं दृष्ट्वा सा त्वया मुक्ता ततो युष्मान् शशाप सः। मनुष्ययोनिं पापिष्ठाः सर्वे यातेति तत्क्षणात् ॥२५१॥ प्रार्थितः सोऽथ शापान्तमेव वो मुनिरभ्यधात्। यदानङ्गरतीराजसुता युष्माभिरर्चिता ॥२५२॥ गता विद्याधरं लोकं मोक्ष्याध्वामी तदा त्रयः। त्वं तु विद्याधरीभूतां प्राप्यैतां हारयिष्यसि ॥२५३॥ ततः प्राप्स्यसि विकटवदन व्यसनं महत्। चिराच्च देवीमाराध्य शापादस्माद्विमोक्ष्यसे ॥२५४॥ त्वयास्याश्चापलेखाया हस्तस्पर्शो यतः कृतः। परदारापहारोत्थं पापमस्ति च ते महत् ॥२५५॥ इति ये मद्गणा यूयं शप्तास्तेन महर्षिणा। तेऽद्य जाताः स्थ चत्वारः प्रवीरा दक्षिणापथे ॥२५६॥ पञ्चपट्टिचनामाऽसौ यो तौ खड्गधरश्च यः। सतायस्ते त्रयस्त्वं च चतुर्थो जीवदत्तकः ॥२५७॥ ते च त्रयोऽनङ्गरतौ प्रयातायां निजं पदम्। इहागत्यैव निम्मुक्ता मत्प्रभावेन शापतः ॥२५८॥ त्वया चाराधिताऽस्म्यद्य जातः शापक्षयश्च ते। तन्नानयीं गृहीत्वैनां धारणां स्वतनूं त्यज ॥२५९॥