कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 565, कुल 1079 में से
संदर्भ में पढ़ें५२४ कथासरित्सागर
तच्छ्रुत्वान्यादृशं भावमुपलब्ध्य तयोर्द्वयोः। सुदर्शनोऽब्रवीन्नाहं भोजनेऽद्य पटुः¹ स्थितः ॥३०३॥ वणिक्पतिस्ततोऽवादीत्तर्हि त्वद्वनिता सखे। भुङ्क्तां प्रथममस्माकमेषा हि गृहमागता ॥३०४॥ इत्युक्तस्तेन तूष्णीं स बभूव कितवोऽपि सन्। स चानङ्गप्रभायुक्तो ययावभ्यन्तरं वणिक् ॥३०५॥ तत्र चक्रे तया साकं पानाहारादिभिर्धृतिम्। अतर्कितोपनतया लसद्भावविलासया ॥३०६॥ सुदर्शनः स तस्याश्च निर्गमं प्रतिपालयन्। बहिः स्थितः सतद्भूत्यैरुक्ते सत्तत्प्रेरितैस्ततः ॥३०७॥ मुक्त्वा गृहं गता सा ते निर्यान्ती न त्वयेक्षिता। सत्त्वया किमिहाद्यापि क्रियते गम्यतामिति ॥३०८॥ सान्तःस्थिता न निर्याता न यास्यामीति स ब्रुवन्। दत्त्वा पादप्रहारांस्तस्तद्भूत्यैर्निस्कास्यत ॥३०९॥ ततः सुदर्शनो गत्वा दुःखितः स व्यचिन्तयत्। कथं मे वणिजा दारा मित्रेणाप्यमुना हृताः ॥३१०॥ इहैवोपनतं वा मे स्वपापफलमीदृशम्। यन्मया कृतमन्यस्य तदन्येन कृतं मम ॥३११॥ कुप्यामि किं तदन्यस्मै कोपार्हं तत्स्वकर्म मे। तच्छिन्दधि न येन स्यात्पुनर्मम पराभवः ॥३१२॥ इत्यालोच्य क्रोधं त्यक्त्वा गत्वा बदरिकाश्रमम्। धूतशारस्तदा तत्र भवच्छेदि व्यतातपः ॥३१३॥ सा च रूपाधिकं प्राप्य प्रियं तं वणिजं पतिम्। रमेऽनङ्गप्रभा मुग्धी पुण्यात्पुण्यमिवायता ॥३१४॥ क्रमेण तस्य साऽभूद्वणिजो विपुलश्रियः। स्वामिनी सानुरागस्य प्राणेष्वपि धनेष्वपि ॥३१५॥ राजात्र वीरबाहुश्च तत्रस्थामेकसुन्दरीम्। श्रुत्वापि धर्ममर्यादां रक्षन्नेव जहार ताम् ॥३१६॥
१ स्वस्थ इत्यर्थः।