कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 569, कुल 1079 में से
संदर्भ में पढ़ें५२८ कथासरित्सागर अवतीर्य तटे सोऽथ प्रियाविरहदुःखितः। अशक्यप्रतिकारं च मत्वा विधिविचेष्टितम् ॥१३२॥ गत्वा शनैः स्वनगरं बद्ध्वा धीराशयो धृतिम्। हिरण्यगुप्तो भूयोऽप्य॑नुपार्ग्यास्ति सुनिर्वृतः ॥१३३॥ सा त्वनङ्गप्रभैकाह्नाच्चित्रं फलकस्थिता ॥ तेन सागरवीरेण प्रापिताम्भोनिधस्तटम् ॥१३४॥ तत्राश्वास्य च नीताभूद्धीवरेन्द्रेण तन सा। तरत्सागरपुरं नाम नगरं भवनं निजम् ॥१३५॥ तत्र राजसमधीकं वीरं प्राणप्रदायिनम्। सुयौवनं सुरूपं च विचिन्त्याज्ञाविधायिनम् ॥१३६॥ तमेव चक्रे सानङ्गप्रभा दाशपतिं पतिम्। न स्त्री चलितचारित्रा निम्नोन्नतमवेक्षते ॥१३७॥ ततः कैवर्तपतिना तेन साकमुवास सा। तद्वेश्मन्युपभुञ्जाना तत्समृद्धिं समर्पिताम् ॥१३८॥ अनङ्गप्रभामदनप्रभयोः कथा एकदा साग्र हर्म्याग्रादपश्यद्रथ्यया तया। यान्तं विजयवर्माख्यं भव्यं क्षत्रियपुत्रकम् ॥१३९॥ रूपलुब्धावतीर्यैव समुपैत्य जगाद सा। दर्शनाकृष्टचित्तां मां भज प्रणयिनीमिति ॥१४०॥ स चाभिनन्द्य हृष्टस्तामाकाशपतितामिव। गृहीत्वा च जगाम स्वं गृहं त्रैलोक्यसुन्दरीम् ॥१४१॥ सोऽथ सागरवीरस्तां बुद्ध्वा क्वापि गतां प्रियाम्। त्यक्त्वा सर्वं तम त्यक्ष्यंस्तपसा सुरनिम्नगाम् ॥१४२॥ यदगात्सत्कथं मा भूद्दुःखं तस्य तथाविधम्। क्व वादासः क्व तादृश्या विद्याधर्या हि सङ्गमः ॥१४३॥ सा चानङ्गप्रभा तेन समं विजयवर्मणा। तस्थौ तत्रैव नगरे यथासुखमनर्गला ॥१४४॥ ततः कदाचित् समरयं समारूढकरेणुकः। राजा सागरवर्माख्यो निरगाद्भ्रमितुं पुरम् ॥१४५॥