भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 577, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 577

५१० कथासरित्सागर स्वनामसदृशं स्ववृत्तं स पश्यंस्तत्पुरं नृपः। तेनाययौ पथा यत्र गृहं विजयवर्मणः ॥३४६॥ बुद्ध्वा च नृपमायान्तं तद्दर्शनकुतूहलात्। आरुरोहाथ सानङ्गप्रभा हर्म्यतलं तदा ॥३४७॥ अनंगप्रभानामवनप्रभयोः कथा दृष्ट्वैव सा तं राजानं तथाभूतस्तथा यथा। पृष्ठाद्राजकरेणुस्य हस्त्यारोहमभाषत ॥३४८॥ भो हस्त्यारूढ नैवाहमारूढा जातु हस्तिनम्। सदारोहय मामत्र वीक्षे तावत् कियत्सुखम् ॥३४९॥ सच्छत्राधोरणे तस्मिन् राजानमवलोकिनि। राजा ददर्श तामिन्दोर्दिवः कान्तिमिव च्युताम् ॥३५०॥ पिवंश्च तामतृप्तस्तं चकोर इव चक्षुषा। नृपस्तत्प्राप्तिबद्धाशो हस्त्यारोहमुवाच स ॥३५१॥ नीत्वा करेणुं निकटं पूरयास्या मनोरथम्। आरोपयन्दुवदनामेतामत्राविलम्बितम् ॥३५२॥ इति राज्ञोदितं तेन हस्त्यारोहेण चौक्षिता। अधस्तात्तस्य हर्म्यस्य तत्क्षणं सा करेणुका ॥३५३॥ दृष्ट्वा तां निकटप्राप्तां राज्ञ सागरवर्मेण। उत्सङ्गे तस्य सानङ्गप्रभात्मानमपातयत् ॥३५४॥ क्वापि स भर्तृविद्वेषः क्वेषा भर्तृज्जवृत्तता। हा तस्याः पितृशापेन दर्शितोऽतिविपर्ययः ॥३५५॥ निपातभीतेव च सा कण्ठे तं नृपमग्रहीत्। तत्स्पर्शामृतसिक्ताङ्गः सोऽपि प्राप परां मुदम् ॥३५६॥ मुक्त्वा समर्पितात्मानं परिचुम्बन्नलालसाम्। तां स राजा गृहीत्वैव जगामाशु स्वमन्दिरम् ॥३५७॥ तत्र तामुक्त्तवृत्तान्तां तदैव युवराङ्गनाम्। स चकार महादेवी प्रवेश्यान्तःपुरे नृपः ॥३५८॥ बुद्ध्वा राजहृतामेतामेत्य क्षत्रमिवाथ सः। गेहिविजयवर्मापि राजमुख्यानबोधयत् ॥३५९॥ युद्धे च तत्र सस्त्याज शरीरमपराङ्मुखः। न शूरा विषहन्ते हि स्त्रीनिमित्तं पराभवम् ॥३६०॥