कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 585, कुल 1079 में से
संदर्भ में पढ़ें५३८ कथासरित्सागर सा पुनरधिगतविद्या दीप्तानङ्गप्रभापि तनैव। देहेनान्येन वभौ जाता विद्याधरी झगिति ॥४ ६॥ सानन्दो मदनप्रभ स च ततः सा चाप्यनङ्गप्रभा। दिव्यान्योन्यवपुर्विलोकनरुसवोढानुरागावुभौ । स श्रीमान् समरश्च खेचरपतिः सर्वे समुत्पत्य खम्। जग्मुर्वीरपुरं सहैव किल तं वेद्याधरं तत्पुरम् ॥४०७॥ स तत्र समरो यथाविधि सुतामनङ्गप्रभां तदैव मदनप्रभप्रचुरभूमृते तां ददौ ॥ स च क्षपितशापया सममथैतया प्रीतया जगाम मदनप्रभः स्वपुरमत्र चासीत् सुखम् ॥४०८॥ इत्थं स्वदुर्नयविपाकवशेन दिव्याः शापच्युता ह्यवतरन्ति मनुष्यलोके । भुक्त्वा फलं तदुचितं च निजां गतिं ते पूर्वार्जितेन सुकृतेन पुनः प्रयान्ति ॥४ ९ इति स कथां नरवाहनदत्त सचिवान्निराम्य गोमुखतः । सालङ्कारवतीकस्तुतोष चक्रं सततश्च दिनकृत्यम् ॥४१ ॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलङ्कारवतीकम्बके द्वितीयस्तरङ्गः। तृतीयस्तरङ्गः नरवाहनदत्तस्य कार्पटिकस्य च कथा ततोऽप्यथुरलङ्कारवतीपार्श्वस्थितं सखा। नरवाहनदत्तं तं मरुभूतिर्व्यजिज्ञपत् ॥१॥ पश्य पश्य वराकोऽयं देव कार्पटिकस्तव। चर्मसण्डैकवसनो जटाभ्रः कृशधूसरः ॥२॥ सिंहद्वाराद्विवारात्रं शीते वाप्यातपेऽपि वा। न चलत्येव तन्नास्य किमद्यापि प्रसीदसि ॥३॥ काले दत्तं वरं ह्यल्पमकाले बहुनापि किम्। तद्यावन्न्म्रियते नैष तावदस्य कृपां कुरु ॥४॥