भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 591, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 591

५४४ कथासरित्सागर ९ यस्मै तुष्यति राजायं दारिद्र्यं तस्य कृन्तति। सोऽथ कार्पटिकस्त्वेवं समाहूयैवमादरात् ॥३४॥ मातुलुङ्गमिदं दत्तं तुष्टेनानेन भूभृता। कल्पवृक्षोऽप्यभव्यानां प्रायो याति पलाशताम् ॥३५॥ इति सर्वेऽपि तद्दृष्ट्वा तत्रास्थाने विषादिनः। अज्ञातपरमार्थत्वात्स्वैरमूचुः परस्परम् ॥३६॥ स तु कार्पटिको मातुलुङ्गमादाय निर्ययौ। आययौ चाग्रतस्तस्य भिक्षुरेको विपीदतः ॥३७॥ स राजवन्दिनामा तद्दृष्ट्वा शाटकमग्रहीत्। तस्मात्कार्पटिकान् मातुलुङ्गं दृष्ट्वा मनोरमम् ॥३८॥ प्रविश्य च स भिक्षुस्तद्राज्ञः फलमढौकयत्। राजा च तत्परीक्षाय श्रमणं पृच्छति स्म तम् ॥३९॥ मातुलुङ्गं कुत इदं भदन्त भवतामिति। सतं कार्पटिकं सोऽस्म वदातारं शशंस चम् ॥४०॥ अथ राजा विषण्णश्च विस्मितश्च बभूव सः। अहो अद्यापि न क्षीणं पापं तस्येति चिन्तयन् ॥४१॥ स्वीकृत्य मातुलुङ्गं तदुत्थायास्थानतः क्षणात्। चकार दिनकर्त्तव्यं *रक्तदत्तं स भूपतिः ॥४२॥ सोऽपि कार्पटिको गत्वा सिंहद्वारे यथास्थितः। कृतभोजनपानादिरासीद्विक्रीतशाटकः ॥४३॥ द्वितीयेऽह्नि स राजा च सर्वास्थानं तथैव तत्। विदधे तत्र सर्वे च सपोराः प्राविशन् पुनः ॥४४॥ दृष्ट्वा कार्पटिकं स च प्रविष्टं सोऽथ भूमिभृत्। तथैवाहूय पुनरप्युपावेशयदन्तिके ॥४५॥ पाठयित्वा च भूयोऽपि तामेवार्याँ प्रसादतः। गूढरत्नं ददौ तस्मै मातुलुङ्गं तदेव सः ॥४६॥ अहो द्वितीये दिवसे तुष्टोऽस्यायं वृथा प्रभुः। किं तावदेतदित्यत्र सर्वे दध्युः सविस्मयाः ॥४७॥