भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 593, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 593

५४६ कथासरित्सागर स च कार्पटिको विम्नो' हस्तं कृत्वा तु तत्फलम्। राजप्रसादं सफलं मन्वानो निर्ययौ बहिः ॥४८॥ तावत्तस्याययौ कोऽपि विषयाधिकृतो'ऽग्रतः। प्रविविक्षुस्तदास्थानं द्रष्टुकामो महीक्षितम् ॥४९॥ स दृष्ट्वा मातुलुङ्गं तदुपवव्रे कार्पटिकात्ततः। आददे शकुनापेक्षी दत्त्वास्मै वस्त्रयोर्युगम् ॥५०॥ प्रविश्य च नृपास्थानं पावनम्रो नृपाय तत्। मातुलुङ्गं ददावादौ ततोऽन्यत् प्राभृतं' निजम् ॥५१॥ परिज्ञाय च तद्राज्ञा फलं स विषयाधिपः। कुत एतत्तवेत्युक्तोऽवोचत्कार्पटिकादिति ॥५२॥ अहो वदति नाद्यापि लक्ष्मीस्तस्येह दर्शनम्। इत्यन्तश्चिन्तयन्सोऽथ राजाऽभून्मना भृशम् ॥५३॥ उत्सस्र्जो मातुलुङ्गं तद् गृहीत्वास्थानतश्च सः। सोऽपि कार्पटिको वस्त्रयुग्मं प्राप्यापणं ययौ ॥५४॥ चक्रे भोजनपानादि विक्रीत्यैकं च शाटकम्। द्वितीयं च द्विधा कृत्व वाससी द्वे व्यधत्त सः ॥५५॥ ततस्तृतीयेऽपि दिने सर्वास्थानं स पार्थिवः। व्यधात्तथैव सर्वेभ्यः प्रविशेन्न पुनर्जने ॥५६॥ तस्मै प्रविष्टाय च तन्मातुलुङ्गं तथैव सः। भूपोऽप्याहूय तामायां पाठयित्वा नृपो ददौ ॥५७॥ विस्मितेष्वथ सर्वेषु सोऽपि कार्पटिको बहिः। गत्वा राजविलासिन्यै तददाद्बीजपूरकम् ॥५८॥ सा तस्मै राजसम्मानतत्स्वस्तीव जङ्गमा। जातरूपं ददौ पुष्पमिवाग्रफलसूचकम् ॥५९॥ १ व्याकुलः। २ विषयस्य - देशस्य अधिकृत - अधिकारी प्रशासकः। ३ प्राभृतम् - राज्ञे प्रदेयमुपहारम् यत् शुभोदर्कल्पितमासीत्।