भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 611, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 611

५१४ कथासरित्सागर तन्मे प्रसीद वरद गृहाण स्वमिमामपि। मच्छरीरोपहारार्थाच्छ्रेयो राज्ञोऽस्तु मत्प्रभोः ॥१७५॥ इत्युदीर्य शिरश्छेत्तुं यावदिच्छति स स्वकम्। उदभूद् भारती तावदशरीरा नभस्तलात् ॥१७६॥ मा कार्षीः साहसं पुत्र सत्त्वेनैवामुना ह्यहम्। सुप्रीता तव सम्प्राप्तं प्रार्थय स्वेप्सितं वरम् ॥१७७॥ तच्छ्रुत्वा सोऽब्रवीद्वीरवरस्तुष्टासि देवि चेत्। राजा विक्रमतुङ्गस्तज्जीवत्वन्यत्समाशतम् ॥१७८॥ भार्यापत्यानि जीवन्तु मम चेति वरेऽर्थिते। तेन भूयः समुद्भूषेवमस्त्विति वाग्दिवः ॥१७९॥ तत्क्षणं ते च जीवन्तस्त्रयोऽप्युत्तस्थुरक्षतैः। दहैर्धर्मवती सत्त्ववरो वीरवती च सा ॥१८०॥ ततो वीरवरो दृष्टो बोधितान् देव्यनुग्रहात्। नीत्वा तान्स्वगृहं सर्वान् राज्ञो द्वारमगात्पुनः ॥१८१॥ नृपो विक्रमतुङ्गश्च तद्दृष्ट्वा हृष्टविस्मितः। गत्वा पुनस्तं प्रासादमरोहत् स्वमलक्षितः ॥१८२॥ सिंहद्वारे स्थितः कोऽत्रत्युपरिष्टादुवाच च। तच्छ्रुत्वाधःस्थितो वीरवरस्तं प्रत्युवाच सः ॥१८३॥ अह स्थितोऽत्र तां च स्त्रीं वीक्षितुं गतवानहम्। वेपतेव च सा क्वापि दृष्टनष्टेव मे गता ॥१८४॥ श्रुत्वैतत्कृतसंवृत्तान्तं दृष्ट्वा सोऽत्यन्तमद्भुतम्। भूभूद् विक्रमतुङ्गोऽत्र रात्रावेको व्यचिन्तयत् ॥१८५॥ अहो अपूर्वः कोऽप्येष पुम्पातिशयो यतः। यः करोतीदृशं श्लाघ्यमुक्तञ्च न च शंसति ॥१८६॥ गम्भीरोऽपि विशाखोऽपि महासत्त्वोऽपि नाम्बुधिः। चपलेन महावातोत्स्पर्शेऽपि स्पृष्टस्त्वमुना ॥१८७॥ परोक्षं निशि येनैव पुत्रदारव्ययेन मे। प्राणा प्रदत्तास्तस्यास्य कुर्यां कां प्रत्युपक्रियाम् ॥१८८॥ इत्याद्याकलयन् राजा प्रासादादवतीर्य सः। प्रविश्याभ्यन्तरं रात्रिं स्मयमानो निनाय ताम् ॥१८९॥