भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 625, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 625

५७८ कथासरित्सागर नरवाहनदत्तश्च पित्रोर्दत्तोत्सवो दृशोः। अथा सम्भावयामास भार्या मार्गोन्मुखीर्निजाः॥७८॥ ताश्चोन्मिषिदवर्षेरिव तं च कृशीकृताः। अनन्यत्रन्वर्णयन्त्यस्तां तां विरहवेदनाम्॥७९॥ गोमुखो वनवासे च रक्षतो रणवाजिनः। प्रलम्बबाहोः सिंहादिवधशौर्यमवर्णयत्॥८०॥ एष श्रुतिसुखाञ्छृण्वन् कथाशपानयन्त्रणान्। निर्वर्णयैष कान्तानां रूपं स नयनामृतम्॥८१॥ कुर्वंश्चाटूनि च पिबन् मधूनि सचिवैर्युतः। नरवाहनवतोऽत्र तं कालमवसत्सुखी॥८२॥ एकदाऽसिरलङ्कारवतीवासगृहे स्थितः। सवयस्यः स शुश्राव तूर्यकोलाहलं बहिः॥८३॥ ततो हरिशिखं सेनापतिं निजमुवाच सः। अकस्मात्कुत एतस्यात्तूर्यनादो महानिह॥८४॥ समुद्रशूरस्य कथा एतच्छ्रुत्वैव निर्गत्य प्रविश्य च स तं क्षणात्। व्यजिज्ञपद्धरिशिखो वत्सराजसुतं प्रभुम्॥८५॥ शूरो नाम वणिग्देव नगर्यामिह विद्यते। इतः सुवर्णद्वीपं च स जगाम वणिज्यया॥८६॥ आगच्छंस्ते निजस्तास्य सम्प्राप्तोऽप्यर्थसञ्चयः। अम्भौ वहनमङ्गेन निमग्नो नाक्षमगात्॥८७॥ उत्तीर्णश्चारमर्नेवैको देव जीवन्स वारिधेः। प्राप्तश्चाद्य दिने षष्ठमिहापन्नो निजं गृहम्॥८८॥ दिनानि कतिचिद्यावदिह तिष्ठति दुःखितः। तावत् स्वारामतो दैवात् प्राप्तस्तेन निधिर्महान्॥८९॥ तद् गोत्रजानां च मुदाऽज्ञातं यत्सोदरेण तत्। ततोऽस्यागत्य तेनासी विज्ञप्तो वणिजा प्रभुः॥९०॥ सरत्नोघा मया लब्धाऽद्यतन्त्रा हेमकोटयः। तदाविशति देवस्तदपयिष्यामि सा इति॥९१॥ जन्माशयेन मुषितं दीनं दृष्ट्वैव वेधसा। कृपया सविभक्तं स्वां वो मय्यारयञ्जडाशयः॥९२॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 625, कुल 1079 में से · BharatKosha