भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 627, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 627

५८ कथासरित्सागर गच्छ भुङ्क्ष्व यथाकामं धनं प्राप्तं स्वभूमितः । इति वत्सेश्वरेणापि व्यादिष्टोऽसौ वणिक्ततः ॥९३॥ स एष पादयो राज्ञः पतित्वा हर्षनिर्भरः । तूर्याणि वादयन् याति स्वगृहं सानुगो वणिक् ॥९४॥ एवं हरिशिखेनोक्तां श्रुत्वा धार्मिकतां पितुः । नरवाहनदत्त स्तान्सचिवान्विस्मितोऽब्रवीत् ॥९५॥ यदि तावदरत्यांस्त्वन्यत्र ददाति किम् । चित्रमुच्छ्रायपाताभ्यां क्रीडतीव विधिर्नृणाम् ॥९६॥ तच्छ्रुत्वा गोमुखोऽथावीदीदृश्येव गतिर्विषः । समुद्रशूरस्य कथा सथा चात्र निशम्यताम् ॥९७॥ समुद्रशूरस्य कथा बभूव नगरं पूर्वं नृपतेर्हर्षवर्मणः । स्फीतं हर्षपुरं नाम सौराज्यसुखितप्रजम् ॥९८॥ तस्मिन्समुद्रशूराख्यो नगरेऽभून्महावणिक् । कुलजो धार्मिको धीरसत्त्वो बहुधनेश्वरः ॥९९॥ स वणिज्यावशाद् गच्छन् सुवर्णद्वीपमेकदा । आरुरोह प्रवहणं तत् प्राप्य महाम्बुधौ ॥१००॥ गच्छतस्तस्य तत्राथौ किञ्चिच्छेषे तदध्वनि । घोरः समुद्बभूवेषो वायुश्च क्षोभितार्णवः ॥१०१॥ तेनोर्मिभगविक्षिप्ते वहने मकराहतं । भग्ने परिकरं बद्ध्वा सोऽम्बुधावपतद्वणिक् ॥१०२॥ यावच्च बाहुविक्षेपैर्वीरोऽत्र तरति क्षणम् । तावच्छिरोमृतं प्राप पुरुषं पवनरितम् ॥१०३॥ तदारूढश्च बाहुभ्यां क्षिप्तोऽम्बुविधिनेव सः । नीतः सुवर्णद्वीप तदनुकूलेन वायुना ॥१०४॥ तत्रावतीर्णे पुळिने स तस्मा मृतमानुषात् । कटीनिबद्ध मप्रन्थि तस्यार्षक्षत शाटकम् ॥१०५॥ उन्मुच्य वीक्षते यावच्छाटकं त्रुटितोऽन्य तत् । तावत्तदन्तरद्विध्य रत्नार्ग्य प्राप कण्ठकम् ॥१०६॥ तं दृष्ट्वाऽनर्घमादाय कृतस्नानस्तुतोष सः । मन्वानाऽसौ विनष्टं तदनं तस्याग्रतस्सुखम् ॥१०७॥