कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 63, कुल 1079 में से
संदर्भ में पढ़ें४२ कथासरित्सागर अथैतां मानुषीभूतां स्वभार्यां परिणेष्यसि । प्रत्यक्षमेनामपि च द्रक्ष्यस्यन्येन सङ्गताम् ॥१२५॥ ततो विरक्तहृदयो दत्त्वा राज्यं द्विजन्मने । देवप्रभ यदा शान्तो वनं गन्तुं प्रपत्स्यसि ॥१२६॥ तदा प्रथममुक्तेऽस्मिन्गजरत्नावुजे तव । अनया भार्यया साकं शापात्त्वमपि मोक्ष्यसे ॥१२७॥ इति सिद्धोक्तशापान्ता वय प्राक्कर्मभवत् । एवं जाता पृथग्भोगाच्छापान्तं सैष चाद्य नः॥१२८॥ एवं सोमप्रभेणोक्ते स रत्नाधिपतिर्नृप । जातिं स्मृत्वाग्रवीद्धन्त सैष देवप्रभो ऽहम् ॥१२९॥ एषापि राजदत्ता मा पत्नी राजवती मम । इत्युक्त्वा स तया साकं भार्यया तां तनु जहौ ॥१३० ॥ क्षणात्सर्वेऽपि गन्धर्वा भूत्वा लोकस्य पश्यतः । समुत्पत्य निजं धाम ययुस्ते मरुद्याधस्रम् ॥१३१॥ धीरुवरयपि शीलस्य माहात्म्यात्प्राप्य सम्पदम् । ताम्रलिप्तीं पुरीं गत्वा तस्थौ धर्मोपसेविनी ॥१३२॥ इति जगति न रक्षितुं समर्थः क्वचिदपि कश्चिदपि प्रसह्य नारीम् । अवति तु सततं विशुद्ध एकः कुलयुवतीं निजमरूपाशबन्धः ॥१३३॥ एवं सर्ष्या नाम दुःशङ्कहेतुर्ह्येष पुंसां क्लेशदायी परेषाम् । योऽयं मा मुद्रक्षणायाङ्गनानामर्थोत्सुक्यं प्रत्युतासां करोति ॥१३४॥ इति नरवाहनदत्तो रत्नप्रभया स्वभार्यया कथिताम् । स निशम्य कथामभ्यां सचिवैः सार्धं परं मुमुदे ॥१३५॥ इति महाकविश्रीमत्सोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके द्वितीयस्तरङ्गः ।
तृतीयस्तरङ्गः निश्चयदत्तस्य अनुरागपरावरूपाश्च कथा एवं रत्नप्रभाख्यानकपात्रमत्त इवापरम् । नरवाहनदत्तं तं सचिवो गोमुखोऽब्रवीत् ॥१॥