भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 639, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 639

५९२ कथासरित्सागर निशीथे च यशोवर्मा स्वप्नेऽपश्यदशङ्कितम्। प्रविष्टानत्र पुरुषान् दण्डहस्तान् भयङ्करान्॥१७९॥ धिगल्पाम्यधिकः कर्षो घृतस्य किमिति त्वया। मांसौदनश्च भुक्तोऽद्य पीतं च पयसः पलम्॥१८०॥ इति क्रोधाद् ब्रुवाणैस्तैराकृष्यैवाथ पात्यतः। पृष्ठपैरर्थवर्मा स सगूढे पर्यताड्यत॥१८१॥ घृतकर्षपयोमांसभक्तमम्यधिकं च यत्। भुक्तं तत्सर्वमुद्दरादाजकर्षुश्च तस्य ते॥१८२॥ तद्दृष्ट्वा स यशोवर्मा प्रबुद्धो यावदीक्षते। तावत्तस्याययौ शूलं विद्युत्स्पर्धमयोमयम्॥१८३॥ तत्र क्रन्दन् परिजनैर्मर्द्यमानोदरश्च सः। वमति स्मार्थवर्मा तदधिकं यत्स भुक्तवान्॥१८४॥ शान्तशूले ततस्तस्मिन्यशोवर्मा व्यचिन्तयत्। धिग्धिगर्थधियमिमां यस्या भोगोऽप्यमीदृशः॥१८५॥ भस्त्रीकृतयमीदृश्या भूमादमवनिःधियः। इत्यन्तश्चिन्तयन्सोऽत्र रात्रिं तामत्यवाहयत्॥१८६॥ प्रातस्तमर्थवर्माणमामन्त्र्य स ययौ ततः। यशोवर्मा गृहं तस्य वणिजो भोगवर्मणः॥१८७॥ सत्राभ्यागादधावत्स तेनापि च कृतादरः। निमन्त्रितोऽभूद्वणिजा सवहुर्भोजनाय सः॥१८८॥ न चास्य वणिजोऽपश्यत् स कञ्चिद्धनसञ्चयम्। अपश्यत्तु शुभं वेश्म वासांस्याभरणानि च॥१८९॥ ततः स्थिते यशोवर्म्मण्यस्मिन्प्रावर्त्ततात्र सः। भोगवर्मा वणिक्कर्त्तुं व्यवहारं निजोचितम्॥१९०॥ अमस्माद् भाण्डमादाय दशवन्धस्य तत्क्षणम्। विनेय स्वधनं मध्याहीनानुबपाणयत्॥१९१॥ त्वरितं तान् च दीनारान्भृत्यहस्तं विसृष्टवान्। स्वभार्याय विचित्रात्नपानसम्पादनाय च॥१९२॥