भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 641, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 641

५९४ कथासरित्सागर क्षणान्न्र सुहृदेकस्तमिच्छामरणनामकः । उपागत्यैव रभसाद् भोगवर्माणमभ्यधात् ॥१९३॥ मित्र भोजनमस्माकमुत्तिष्ठागच्छ भुञ्ज्महे । सुहृदो मिलिता ह्यन्ये त्वत्प्रतीक्षा स्थिता इति ॥१९४॥ अद्याहं नांगमिष्यामि प्राघुणोऽद्य स्थितो हि मे । इति ब्रुवाणं पुनरप्येनं स सुहृदब्रवीत् ॥१९५॥ भवता सममायातु तर्हि प्राघुणिकोऽप्ययम् । एषोऽपि न किमस्माकं मित्रमुत्तिष्ठ सत्वरम् ॥१९६॥ इत्याग्रहाद् भोगवर्मा नीतो मित्रेण तेन सः । यशोवर्मयुतो गत्वा भुङ्क्ते स्माहारमुत्समम् ॥१९७॥ पीत्वा च पानमागत्य सायं स स्वगृहे पुनः । सयशोवर्मको भेजे विचित्रं पानभोजनम् ॥१९८॥ प्राप्तायां निशि पप्रच्छ निजं परिजनं च सः । किमद्य रात्रिपर्याप्तमस्ति न सरकं न वा ॥१९९॥ स्वामिन्नास्तीति तेनोक्तं स भेजे शयनं वणिक् । पास्यामोऽपररात्रेश्च कथं जलमिति ब्रुवन् ॥२००॥ यशोवर्माथ तत्पार्श्वे सुप्तः स्वप्नेऽथ दृष्टवान् । प्रविष्टान् पुरुषान् क्षिप्रानन्यांस्तर्षा च पृच्छतः ॥२०१॥ कस्मादपररात्रार्थं सरकं भोगवर्मणः । चिन्तितं नाद्य युष्माभिः श्वभ्रभाङ्ग् स्थितः शठाः ॥२०२॥ इति पश्चात्प्रविष्टास्ते पुरुषा दण्डपाणयः । पूर्वप्रविष्टान् क्रोधात्तान् दण्डाघातैरताडयन् ॥२०३॥ अपराधोऽयमेको नः क्षम्यतामिति वादिनः । दण्डाहतास्ते पुरुषास्ते चाम्ये निरगुंस्ततः ॥२०४॥ यशोवर्माथ तद्द्दृष्ट्वा प्रबुद्ध्य समचिन्तयत् । अचिन्त्योपमतिः क्ष्माप्या भोगश्रीर्भोगवर्मणः ॥२०५॥ भोगहीना समुद्धापि नार्थ्यधीर्यशोवर्मणः । इति चिन्तयतस्तस्य सातिचक्रम यामिनी ॥२०६॥ प्रातश्च स यशोवर्मा तमामन्त्र्य वणिग्वरम् । जगाम विन्ध्यवासिन्याः पादमूलं पुनस्ततः ॥२०७॥