भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 645, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 645

५१८ कथासरित्सागर

धावित्वा चात्र समरबलं तं सम्मुखागतम्। आहत्य शक्त्या राजानं पाशेनाकृष्य बद्धवान्॥२२३॥ ततं समरशूरं च भुवि बाणाहतं नृपम्। द्वितीयं तद्वदाकृष्य पाशेनैव बबन्ध सः॥२२४॥ तृतीयं चात्र समरक्षितं नाम महीपतिम्। वीराख्यस्तत्प्रतीहारो बद्ध्वा तत्पार्श्वमानयत्॥२२५॥ सेनापतिर्देवबलस्तस्यान्यं समर्पयत्। नृपं प्रतापचन्द्राख्यं चतुर्थ सायकाहतम्॥२२६॥ ततः प्रतापसेनाख्यस्तद्दृष्ट्वा पञ्चमो नृपः। क्रोधाच्चमरवालं तं भूपमभ्यपतद्रणे॥२२७॥ स तु निर्धूय तद् बाणान् स्वशरीरेण विद्धवान्। राजा चमरवालस्तं ललाटे त्रिभिराशुगैः॥२२८॥ कण्ठक्षिप्तन पाशेन तं च काल इवाथ सः। आकृष्य स्ववशे चक्रे शराघातविमूर्च्छितम्॥२२९॥ एवं राजसु बद्धेषु तेषु पञ्चस्वपि क्रमात्। हतशेषाणि सैन्यानि दिक्ष्वस्तेषां प्रदुद्रुवुः॥२३०॥ अमितं हेमरत्नादि बहून्यन्तःपुराणि च। राज्ञा चमरबालेन प्राप्तान्येषां महीभुजाम्॥२३१॥ तन्मध्ये च महादेवी यशोल्लेखेति विश्रुता। राज्ञः प्रतापसेनस्य प्राप्ता तेनाङ्गनोत्तमा॥२३२॥ ततः प्रविश्य नगरं वीरब्देवबलौ च सः। क्षत्त्रसेनापती पट्टं बद्ध्वा रत्नैर्पूरयत्॥२३३॥ प्रतापसेनमहिषीं दाशभ्रमजितेति ताम्। यशोल्लेखां स भूपतिः स्वावरोधवधूं व्यधात्॥२३४॥ भुजार्जिताहमस्येति मोहे मां न्यपत्तापि यम्। काममोहप्रवृत्तानां शबला धर्मबासना॥२३५॥ दिनेश्चाभ्यर्थितो राज्ञ्या स यशोलेखया तया। राजा चमरवालस्तान् बद्धान् पञ्चापि भूपतीन्॥२३६॥ प्रतापसेनप्रभृतीन्गृहीतविनयादृतान् । मुमोच निजराज्येषु सस्कृत्य विससर्ज च॥२३७॥