कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 647, कुल 1079 में से
संदर्भ में पढ़ेंकथासरित्सागर ततः स तदकण्टक विजितशत्रु राज्यं निजं समृद्धमशिषच्चिरं समरवालपृथ्वीपतिः। अरंस्त च वराप्सरोम्यधिकरूपलावण्यया द्विपञ्जयपताकया सह समा यशोलेख्या ॥२३८॥ एवं बहूनपि रिपून् रभसप्रवृत्तान्द्राक्कुलानगणितस्वपरस्वरूपान्। एकोऽप्यनन्तमपौरुषभग्नसारदर्पम्वराञ्जयति सयुगमूर्ध्नि वीरः ॥२३९॥ इति गोमुखेन कथितामथ्यां श्रुत्वा कथां कृतश्लाघः। अकरोदथ नरवाहनदत्तः स्नानादि दिनकार्यम् ॥२४०॥ निनाय सङ्गीतरसाञ्च तां तथा निशां स गायन्स्वयमङ्गनासखः। सरस्वती तस्य नभःस्थिता यथा ददौ प्रियाभिश्चिरसंस्तवं वरम् ॥२४१॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलङ्कारवतीकम्बके चतुर्थस्तरङ्गः।
पञ्चमस्तरङ्गः मरुभूति कथा
ततोऽन्येद्युरलङ्कारवतीवासगृहे स्थितम्। नरवाहनदत्तं तं सन्निधौ सर्वमन्त्रिणाम् ॥१॥ एत्य विज्ञापयामास मरुभूतिस्तसेवकः। सोऽयं सौबिदलस्य सदन्तःपुररक्षिणः ॥२॥ मरुभूतेर्मया देव ! सेवा वर्षद्वयं कृता। भोजनाच्छादनं दत्तं समायेस्यामुना मम ॥३॥ भाषापितास्तु तत्पृष्ठे दीनाराः प्रतिवत्सरम्। पञ्चाशद्य ममानेन तानेष न ददाति मे ॥४॥ मुच्यमाणं चतन्नरत्वमाहूमाहूतं। तनोऽविष्टः प्रायद्धू सिंहद्वारेऽस्य तावकः ॥५॥ विचार्यति यत्रात्र देवो मे तत्करोम्यहम्। अग्निप्रवेशमधिकं विकल्प्यप हि मे प्रभुः ॥६॥