भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 649, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 649

६२ कथासरित्सागर

इत्युक्त्वा विरतं तस्मिन् मरुभूतिरभाषत । देया ममास्मै दीनाराः साम्प्रतं तु न सन्ति मे ॥७॥ इत्युक्तवन्तं सर्वेषु प्रहसत्सु स्वमन्त्रिणम् । नरवाहनदत्तस्तं मरुभूतिमभाषत ॥८॥ किमेवं मूर्खमाधत्से नाधिकेयं मतिस्तव । उत्तिष्ठ दीनारशतं दद्यास्मा अविशङ्कितम् ॥९॥ एतत्प्रभोर्वचः श्रुत्वा मरुभूतिर्विलज्जितः । तदैवानीय दत्तस्मै स दीनारशतं ददौ ॥१०॥ ततोऽत्र गोमुखोऽवादीन्न वाच्या मरुभूतिवत् । विचित्रचित्तवृत्तिर्यत् सर्गो देव प्रजापतेः ॥११॥ युष्माभिरेषा किञ्चात्र चिरदातुर्महीपतेः । तत्सेवकस्य च कथा प्रसङ्गाख्यस्य न श्रुता ॥१२॥

चिरदातुर्नृपस्य तद्भृत्यस्य प्रसङ्गाख्यस्य च कथा

चिरदातेत्यभूत् पूर्वं राजा चिरपुरेश्वरः । सुजनस्यापि तस्यासीत् परिवारोऽतिदुर्जनः ॥१३॥ देशान्तरागतस्तस्य प्रसङ्गो नाम भूपतेः । मित्राभ्यां सहितो द्वाभ्यां बभूव किल सेवकः ॥१४॥ सेवां च कुर्वतस्तस्य व्यतीतं वर्षपञ्चकम् । न स राजा ददौ किञ्चिन्निमित्तेऽप्युत्सवादिके ॥१५॥ स च तस्य न सम्प्राप विज्ञप्त्यवसरं प्रभोः । परिवारस्य दौरात्म्यात् सख्योः प्रेरयतोः सदा ॥१६॥ एकदा तस्य राज्ञश्च बालः पुत्रो व्यपद्यत । दुःखितं यस्य सर्वेऽपि भृत्यास्तं पर्यवारयन् ॥१७॥ तन्मध्यं च प्रसङ्गाख्यः शोकादेव स सेवकः । शस्त्रिभ्यां वार्यमाणोऽपि राजानं तं व्यजिज्ञपत् ॥१८॥ बहुकालं वय देव सेवका न च नस्त्वया । दत्तं किञ्चित्तथापीह स्थिता स्मस्त्वत्सुताशया ॥१९॥ त्वया यदि न दत्तं तत्स्वपुत्रोऽस्मासु दास्यति । सोऽपि दैवेन नीतश्चेत् तन्न किञ्चिदिह साम्प्रतम् ॥२०॥